________________
( २३२ ) आर्तप्रायजलोत्सर्गे शस्तं मूलादिभत्रयम् । कौश्चिच्छ्रवणनक्षत्रं पूषा च परिकीर्तिता ॥ ८ ॥ क्षीरानं मधुना भुक्का शुचिःप्रयतमानसः। शुभेन वृषयुग्मेन क्षेत्रसम्प्राप्य कर्षकः।।
अचयेद बलिदानेन तस्यां सायं दिनेश्वरम् ॥९॥ उदङ्मुखः प्राङ्मुख एव वासौ कृषीवलः शस्तहलंगृहीत्वा । कुर्यात् कृषि तस्य हलस्य रेखास्तिस्रो यथा सुप्रकटी भवान्त॥१०
बलिभुक् बलिमादाय यदि गच्छन् महादिशम् । प्रशस्तः कोणदिग्यातः सस्यहानिप्रकाशकः ॥ ११ ॥ बहवो वायसास्तत्र सूचयन्ति महाभयम् । न कश्चिद्यदि गृह्णाति* द्विजातिर्वा भयंतथा ॥ १२ ॥ हलभङ्गे कुलंक्षोभः शीर्षभङ्गे स्त्रियो वधः । युगस्य भङ्गे जानीयाद् दुरितं गृहमेधिनः ॥ १३ ॥ फालस्य भङ्गे दुहितुः सूनोर्गोत्रस्य पीडनम् । वृषपादस्य भङ्गे तु स्वकुलक्षयमादिशेत् । विधिना श्रुतिदृष्टेन शमयेत् पौष्टिकेन तत् ॥ १४ ॥ वहुलाभङ्गते भौमवारे कुर्याद्विशेषतः। बनानां छदनैश्चव दाहकर्म च तत्र हि ॥ १५ ॥ फलपल्लवपुष्पाढ्यान् वनस्पतिमहीरुहान् । विद्यात् सस्यादिपौष्कल्यान् हानिञ्च विपरीततः ॥१६॥ रक्तशालिरशोकेन शालैः कलमशालयः । यवको वटवृक्षेण तिन्दुकेन च षष्टिकाः ॥ १७ ॥ अश्वत्थेन च निष्पत्तिः सर्वसस्यस्य निश्चिता । जम्बुभिस्तिलमाषाश्च यबाः सप्तदलेन च ॥ १८ ॥ * विजातिवी। १ कुलक्षोपः । २ वानाङ्गंदनचैव ।
Aho ! Shrutgyanam