________________
( २२६ )
दिनस्याद्यन्तयोरेवं दीप प्रज्वालयेद् गृहे । फालगुणे मासि माघे च पौर्णमास्यामुषस्यपि । विशुद्धबलिगन्धाद्यैरर्चयेद् गृहदेवताम् ॥ ११५ ॥ गृहागताश्च सम्पूज्या ब्राह्मणातिथिवान्धवाः । गृहमेधीति कुर्व्वाणः श्रियं नियमवाप्नुयात् ॥ ११६ ॥ पूषा पुष्यपुनर्व्ववसुहरी चित्रा शशी रोहिणी तारास्तास्तिथयोंशुमत्फणिमया दिकूपञ्चदश्यो हरा | वाराश्चन्द्रसुतेन्दुशुक्रगुरवो युग्मं कुलीरो धनुः कुम्भान्तावपि राशयो निगदिता गव्यं प्रयोगायते ॥ ११७ ॥ चन्द्राश्चाश्लेषयाश्लिष्ट कृष्णपक्षे चतुद्दशीं । भुजङ्गांशोदयः कैश्चिन्नागयोग इतीष्यते ॥ ११८ ॥ पृक्थ शिरः पञ्चसरोजपत्रं निच्छिद्रमेकीकृतवद्धनालम् । गव्यं प्रपूर्ण निखनेदनन्तर्मृषा तदा क्षुद्रविनाशिगेहे ॥ ११९ ॥ मूत्रं द्विभागं शकृदेकभागं पयोऽष्टभागं दधि तत्समानम् । क्षीरार्द्धकं वा चतुरंशमाज्यं गव्यानि सर्व्वाणि समानि वास्युः १२० गव्येक्षुशालीयवमुद्गमास गोधूमबिल्वास्थितिलाब्जवीजम् । पद्मच्छदस्थ विनिधाय ताम्बे क्षुद्रानिखन्याद् भुवि नागयोगे १२१ इतिप्रवेशविधानम् ।
-:0:--→→→
पनसस्तिन्दुको निम्बः स्यन्दनश्चन्दनोऽर्जुनः । शिंशपाशालकाः स्मय्र्याः सुरदारुश्च शोभनः ॥ १२२ ॥ सर्व्वे ते तरवः शस्ता ये च स्वादुफलोद्गमाः । गजाः संनिहताश्चैसश्मशानपथगान्विताः ॥ १२३ ॥ नान्यं संयोगमिच्छन्ति तिन्दुकी शिशपाशनाः । केवलः स्पन्दनो नेष्टो दन्तःशस्तस्तथाविधः ॥ १२४ ॥
Aho! Shrutgyanam