________________
( २२५ ) गुरुभार्गवसाम्याश्च प्रवेशे शुभदाःस्मृताः ॥ १०४ ॥ त्रिषडायगता:पापाः शशी धर्मार्थलाभगः । पञ्चमं शुद्धमिच्छन्ति केचिद्रन्धान्तिमावपि ॥ १०५ ॥ दृन्द्रिजोपभोगेन गोनिवासैश्च पावनम् । ततो ग्रहबलं कुर्याद्विधिना मङ्गलोचितम् ॥ १०६ ॥ बद्धेन्द्रवल्लीम्भद्राश्च खरपुष्पं पितृद्रुमम् । पलाशश्च शिरषिश्च परिसम्माजयेद् गृहम् ॥ १०७ ।। गोमयेनोपलिप्य क्ष्मां पित्तिरक्तमृदापि वा। कपिला पञ्चगव्येन गृहश्च परिषेचयेत् । फलं भित्तिविभेदादौ ज्ञेयं नक्षत्रचक्रतः ॥ १०८ ॥
वामात्तो मलिनकिरणःसस्फुलिङ्गोऽल्यमूर्तिः क्षिपं नाशं व्रजति विमलं स्नेहवसान्वितोऽपि । दीपःपापं कथयति फलं शब्दवान वेपथुश्च व्यादीर्घार्चिविंशलभमरुद्यश्च नाशं प्रयाति ॥१०९॥ प्रदीपो विमल:स्निग्धः सशब्दप्रथुवर्जितः । सुस्थिरः किरणोद्भूतो वर्द्धयेद्भवनश्रियम् ॥ ११० ॥ पुण्याहवादैःसानन्दः प्रविशेद्वनं प्रभुः। दक्षिणाङ्घ्रिप्रवेशाद्यं सज्ञातिः ससुहृजनः ॥ १११ ॥ पश्चिमे शयनं कुर्याद् दक्षिणे च विशेषतः । आराभूतपदं जह्यादनुवंशं शयीत वा ॥११२॥ प्राङ्मुखस्त्वेव भुजीत न याम्योदङ्मुखासदा । पुरीपोच्चिष्टमूत्रादिसङ्कीर्णा न स्पृशेद भुवम् ॥ ११३ ॥ पौर्णमास्याममावास्यामुपरासौ च संक्रमैः।। शुक्रेन्दुवारयोर्गेहं गोकरीषेण लेपयेत् ॥ ११४ ॥
१ व्यादीर्घार्यिशालाभमरद्रश्च नाशं प्रयाति ।
Aho! Shrutgyanam