________________
( २२४ ) प्राकारबन्धनं कुर्यात् परिखामिन्दुभे खने ॥ ९३ ।। स्वातौ सेतुं निवन्नीयान्मन्दवारे वृषोदये । सिंहोदये च कार्याणि जीवाहे दुर्गवासकृत् ॥ ९४ ॥ चान्द्रे पुष्येण संयुक्त जीववारे विचक्षणः । गोष्टञ्च वृषशालञ्च कारयेद्वषभोदये ॥ ९५ ॥ रौद्राग्निमूलयाम्याहियुक्ते भौमार्कवासरे । नन्दायाञ्च युतेकुर्याद्दासदर्शननिग्रहौ ॥ ९६ ॥ कृष्णे भूततिथौ मूले स्थिरलग्ने शुभोदये। निदध्यागविणं भूमौ तन्न नश्यति केनीचत् ॥ ९७ ॥ मन्दस्य वारे हस्तऽर्के पूर्णा या चेत् समागता। शनेलग्नेऽस्य होरायां व्ययं कुर्याद्विचक्षणः ॥ ९८ ॥
इतिवास्तुविधानम् ।
वास्तुप्रवेशनं कुर्यान्मतिमानुत्तरायने । विहाय कोणगान् मासान् वितद्वारदिङ्मुखम् ॥ ९९ ॥ शुक्लपक्षःप्रशस्तःस्यात् कृष्णस्यासप्तमादिनात् । पूर्वाह्ने सुप्रशस्तःस्यान् मध्याह्ने मध्यमो मतः ॥ १००॥ रोहिण्युत्तरहस्ताश्चिमैत्रतिष्येन्दुविष्णवः । पौष्णादिसाश्विनीप्रोक्ता द्वादशैते प्रवेशने ॥ १०१॥ गुरुशुक्रबुधानान्तु द्रेष्काणांशदिनादयः। गृहप्रवेशे शस्यन्ते मध्यमा शनिचन्द्रयोः ॥ १०२ ॥ तिथयःसुप्रशस्ता स्युः पक्षच्छिद्रविजिताः। गोमीनसिंहकुम्भाश्च नृयुगकन्यातुरङ्गमाः। सप्त शस्ताः प्रवेशेषु शुभयुक्तश्च वृश्चिकः ॥ १०३ ॥ लग्नार्थपुत्रधर्मायकाम्बुसहजस्थिताः ।
Aho! Shrutgyanam