________________
( २२३ ) उदीच्यां देवतागारं प्रतिच्यां धनरक्षणम् ॥ ८२ ॥ महानसस्तथानौवा ईशाने वा मुरालयः। मारुते धान्यगेहश्च निर्ऋतौ भाण्डसञ्चयः ॥ ८३ ॥ ईशाने जलभाण्डाद्या उदीच्यां वा प्रशस्यते । प्रागुदीच्योगजाश्चाजगोजातीनां निकेतनम् ॥ ८४ ॥ मृगे च द्वारपाले च वारुणे राजयक्ष्माण । समीरणे च नागे वा मलवेश्म विधीयते ॥ ८५ ॥ प्रामवस्तु यथेशाने सर्वदेवानिवेशयेत् । बुधं दाक्षिणदिगभागे जिनं याम्ये निवेशयेत् । स्कन्दं दक्षिणदिग्भागे दुर्गामुत्तरकोणतः ॥ ८६॥ प्राध्यां रविञ्च शास्तारं निर्ऋतौ विनिवेशयेत् । पश्चादुदग्गतं विष्णुं ज्येष्टामुपजलाशयम् ॥ ८७ ॥ उत्तरेशानयोर्मध्ये मातरो ग्रामतो बहिः । देवानेवं प्रतिष्टाप्य पश्चाद्वर्ण निवेशयेत् ॥ ८८ ॥ पूर्वतो विप्रजातिः स्याद्दक्षिणे नृपतेः कुलम् । वारिज पश्चिमेकुच्छुिद्रांस्तूत्तरतःपुनः ॥ ८९ ॥ कुलालान् बाह्यतःसौम्येनापि तान् पूर्वदक्षिणे । चक्रिणं याम्यदिग्भागे बहिर्गामे निवेशयेत् ॥ ९० ॥ क्रोशार्द्धमात्रे चाग्नौ वा स्वर्णकारादितक्षकान् । चण्डालान् ग्रामसीमान्ते परितःसन्निवेशयेत् । ईशाने क्रोशमात्रे तु मारुते वा श्मशानकम् ॥ ९१ ॥ कोष्टागारं तथानौ वा निऋतौ पशुकोष्टकम् । अश्वशाला च वायव्ये छागशाला च शाम्भवे । निऋतौ होमदेशश्च कारागारं शिवे तथा ॥ ९२॥ भौमवारेऽम्बु तारायां यमलग्ने विशेषतः ।
Aho ! Shrutgyanam