________________
( २२२ ) स्तम्भोत्तरतुलादीनां स्थापनश्च स्थिरोदये । मरुन्मार्गप्रतिष्टा च कवाटश्चोभयोदये ॥ ७० ॥ अधन्यमतिसंक्षिप्तं विस्तीर्ण शत्रुद्धिदम् । अत्युच्छायश्च नैवेष्टमतिखर्वञ्च वस्तुनुत् ॥ ७१ ॥ चतुरस्रं गृहं श्रेष्टं मागायत्तं धनावहम् । न शस्तं तिर्यगायत्तं वृत्ताकारश्च निन्दितम् ॥ ७२ ॥ चतुः शालं गृहं शस्तं प्रागुदमिनटद्धिदम् । दक्षिणापरनिम्नन्तु दुःखदारिद्रकृत सदा ॥ ७३ ॥ उर्दक्शानं त्रिशालञ्च प्रागपाश्र्थोनञ्च वृद्धिदम् । याम्योनं सौख्यवित्तघ्नं पश्चिमोनञ्च दुःखदम् ॥ ७४ ॥ याम्यपश्चिमयुक्तन्तु गृहं शस्तं द्विशालकम् । प्रागुदक्पार्श्वयुक्तन्तु व्याधिनधन्यकारणम् ॥ ७५ ॥ एकशालगृहं याम्ये पश्चिमे वा प्रशस्यते । पाच्यां वाप्युत्तरस्यां वा नैधन्यं मरणप्रदम् ॥ ७६ ॥ यदीच्छेद्रेश्मनि वृद्धि समन्तात्तस्य वर्जयेत् । पूर्वस्यामुत्तरस्यां वा वेश्मदृद्धिः प्रशस्यते ॥ ७७ ॥ दौवारिके च पर्जन्ये नागे च वितथे तथा । कर्तव्यो जलनिस्रावः द्वारदेशे मनीषिणा ॥ ७८ ॥ गृहक्षते महेन्द्रे च भल्लाटे पुष्पदन्तके । गृहद्वारं हि कर्त्तव्यमेवं केचित् प्रचक्षते ॥ ७९ ॥ सर्वदिक्षु पदे तूर्ये वामात् षष्टेऽपि याम्यतः। प्रागुदीच्योस्तृतीये वा द्वारं मध्येऽप्युदग्गतम् ॥ ८० ॥ कूपान् वा चैयदक्षान् वा हित्वा मार्गमथापि वा । न कुर्याद्वारविन्यासं वेशेद्वारन्तु वामतः ॥ ८१ ॥ अन्नशाला भवेत् पाच्यामप्राच्यां धान्यसग्रहः ।
Aho! Shrutgyanam