________________
( २२१ ) वास्तुमध्ये तथा ब्रह्मा ज्ञेयो नवपदाधिपः ॥ ५८ ॥ तस्य पूर्वादिकोष्टासु चत्वाराषट् पदेश्वराः। आर्यमा च विवस्वांश्च मित्रश्च पृथिवीतरः ॥ ५९॥ सावित्रासविता चाग्नेब्रह्मणोऽन्तव्यवस्थितौ । विजयश्च महेन्द्रश्च निर्ऋतेश्च ब्रह्मोत्तरे ॥ ६० ॥ रुद्रश्च राजयक्ष्मा च वायुर्ब्रह्मान्तरे स्थितः । आपश्चैवापबत्सश्च रुद्रह्मान्तरे स्थितौ ॥ ११ ॥ एतेऽष्टौ कोष्टमेकञ्च कोष्टार्द्धश्चैव भुञ्जते । तत्तत्पादेषु ते देवाः पूजनीया यथाविधि ॥ ६२॥ पदमध्यं पदाग्रश्च वस्तुनो मर्म कथ्यते । पदाष्टमगतं मर्म तुलास्तम्भादिषु स्मृतम् ॥ ६३ ॥ खरकी च विदारी च पूतना चैव राक्षसी । ईशानादिषु कोणेषु वाहस्थाश्च पिशाचिकाः ॥ ६४ ॥ रविःशुक्राकुजो राहुः सौरश्चन्द्रो बुधो गुरुः । प्रागादिकास्तु दिक्पालाः पूजनीया यथाक्रमम् ॥६५॥ भूम्यारम्भं विधायैवं वनारम्भो विधीयते । परिघं परिहसैव सर्बारम्भविधि जगुः ॥ ६६ ॥ पौराणिकास्तु न ग्राह्याः स्तम्भोत्तरतुलेष्टिकाः। चैसश्मशानगा वृक्षाः सच्छिद्रा वह्निदृषिताः॥ अपशस्ताच जन्माः जाता स्तम्भादिनोचिताः ॥१७॥ विदध्याद्वांशिकं स्तम्भं द्वादशांशं ततःक्रमात् । एकादशविभागं वा दशभागमथापि वा ॥ ६८॥ यांशोनं कर्णपादःस्याद्वारबाहा ततोऽपि च । नरांशोऽन्यत्र विष्कम्भो' तदंशेनाहिभागनुत् ॥ ६९ ॥ १ चाग्नेर्द्धमानोन्नव्यवस्थितौ ।
Aho! Shrutgyanam