________________
( २२० ) वसुबिलगुणनासच्छिद्रवेदाभिद्धिं विभजतु रविनाडी दन्तिताराद्रिरन्धैः । वदतु तदवशिष्टैरायमन्यश्च योनि
तदनुभवनतारा वारमंशं क्रमेण ॥ ४७ ॥ स्थिरे चोभयराशौ वा शुभग्रहसमन्विते । नानामङ्गलघोषेण स्थापयेत् प्रथमां शिलाम् ॥ ४८ ॥ नन्दा भद्रा जयां पूर्णा शिला स्थाप्याः प्रदक्षिणम् । तन्मध्य श्वभ्रमम्भोभिराधिवासितकुम्भगैः ॥ ४९ ॥ पूरयेदक्षिणात्तं यदि तोयं शुभावहम् । श्रियं विवर्द्धयेद्वस्तु चिराच्छुष्यति चेजलम् ॥ ५० ॥ देवब्राह्मणयोर्युग्मा हस्तसङ्ख्या:सुपूजिताः । अयुग्मसङ्ख्याः शेषाणां जनयन्ति गृहश्रियम् ॥ ५१ ॥ मागपश्चिमगता रेखा दश तत्र प्रकल्पयेत् । याम्योत्तरगताश्चैवमेकाशीतिपदं भवेत् ॥ ५२ ॥ ग्रामालयादौ सर्वत्र पदमेवं विचारयेत् । मागुदक्कोणमारभ्य क्रमादेवं निवेशयेत् ॥ ५३ ॥ शिखी तथैव पर्जन्यो जयन्तःपाकशासनः । सहस्रकिरणःससो भृतश्चैवान्तरीक्षकः ॥ ५४॥ चित्रा भानुश्च पूषा च वितथश्च गृहक्षतः । यमराजश्च गन्धर्बो भृङ्गराजो मृगस्तथा ॥ ५५ ॥ नितिरपालश्च सुग्रीवःपुष्पदन्तकः । वारुणश्च सुर शेषो राजयक्ष्मा तथैव च ॥ ५६ ॥ समीरणश्च नागश्च मुख्योपल्लाटकस्तथा। ईरो भुजङ्गमश्चैवमदितिदीधितिः पुनः ॥ ५७ ॥ द्वात्रिंशदू वाह्यकोष्टस्थाः देवाः स्वान्तास्त्रायोदश।
Aho ! Shrutgyanam