________________
( २१८ )
भस्मकाष्टास्थिलोष्टा वा वज्र्जयेत्तत्र तद्गृहम् ॥ २२ ॥ शुभ मुहुर्ते सम्प्राप्ते दैवज्ञम्ब्राह्मणानपि । पूजयित्वाथ वस्राद्यैः कारयेत् कर्षणं ततः ॥ २३ ॥ यवसिद्धार्थकादीनि तव बीजानि वापयेत् । तेषु मरुद्धेषु गोभिस्तानिच खादयेत् ॥ २४ ॥ समीकृस ततो भूमिं पञ्चगव्यैर्विशोधयेत् । ज्ञात्वाम्बुभिश्च तत्साम्यं प्राप्ते शुभदिनोदये ॥ २५ ॥ शंकुषड़गुलानाहमुत्सेधाद् द्वादशाङ्गुलम् | समवृत्तमृजं मूर्द्धनि बुदबुदाभं निवेशयेत् ॥ २६ ॥ शङ्कुपादतलाधस्तात्कलिकन्निकने तथा । शङ्कुपादो यथाधस्तात्किश्चित् स्पृशति भूतलम् ॥ २७ ॥ शङ्कुकील निबद्धेन शङ्कुमानेन तन्तुना । परितो विलिखेट्टतं क्रमात्पूर्व्वापराह्नयोः ॥ २८ ॥ शङ्कुच्छाया यदा रेखाँ प्रवेशोपक्रमैः स्पृशेत् । तत्र विन्दुद्वयं देयं ततः शीतेतर त्विषा ॥ २९ ॥ ज्ञात्वायनञ्च वीथिञ्च भुक्ताभुक्तानि तत्र च । याम्येन वाथ सौम्येन मध्यच्छायां विशोधयेत् ॥ ३० ॥ स्वदेशोदयरेखायामुदयसंशुमालिनी ।
मध्यच्छाया च न भवेद्रज्वीच्छाया च शाङ्कवी ॥ ३१ ॥ माची च पश्चिमा चैवं समसूत्रागता भवेत् । दिग्विन्दुद्रयमारभ्य पृथग्टत्तद्वयं लिखेत् ॥ ३२ ॥ मत्स्यपुच्छद्वयाकारो याम्योत्तरदिशोभवेत् । चत्वारो वाहवः कार्य्याः समावाप्याथवा यतः ॥ ३३ ॥ विषुवदिवसे चैवं शङ्कार्मण्डलमा लिखेत् । बिन्दुद्रयस्थवृत्ताभ्यां मत्स्यपुच्छौ प्रसाधयेत् ॥ ३४ ॥
Aho! Shrutgyanam