________________
( २१७ )
रोहिण्यादीनि तिष्येन्दुहस्तमैत्राश्च युग्मगाः । विष्णोत्तरत्रयान्ताश्च प्रशस्ता वास्तुकर्म्मणि ॥ ११ ॥ ओजास्तु तिथयः पूज्याः नवमी पर्व्ववज्जिताः । द्वितीया दशमी पष्टी शुक्लपक्षे तु पूजिताः ॥ १२ ॥ जीवभावसौम्यानां वारवर्गोदयादयः ।
प्रशस्ताः शुक्लपक्षे तु चन्द्रवर्गश्च शोभनः ॥ १३॥ कुम्भश्चिकगोसिंहयुग्ममत्स्य हयाङ्गणाः । वास्तुकर्म्मणि सम्पूज्याः वज्र्जिताश्चरराशयः ॥ १४ ॥ होराचोध्वमुखी श्रेष्टा तिर्य्यगाश्च शुभेक्षिता । वेश्मकर्मसु नैवेष्टा शुभयुक्ताप्यधोमुखी ॥ १५ ॥
वृद्धिं कुर्व्वन्ति लग्नस्था वास्तुकर्म्मणि सद्ग्रहाः । शशी च पापा लग्नस्थाः कुर्व्वन्ति गृहनाशनम् ॥ १६ ॥ अष्टमस्था ग्रहाः सर्व्वे विना शुक्रं स्मृतिप्रदाः । आरम्भे रौति चेद्गोली शान्ता दक्षिणभागतः । पिङ्गला वरटा चाथ शुभमत्र विनिर्द्दिशेत् ॥ १७ ॥ शुभे मुहुर्ते सम्प्राप्ते विदध्यात् खननं बुधः । पौरुषञ्च त्रिहस्तं वा द्विहस्तश्चैकमेव वा । खानयेच्च यथाभूमिर्दोषहीना दृढा भवेत् ॥ १८ ॥ भस्मलोष्टादिशुद्धाभिः पुनर्मृद्भिश्च पूरयेत् । अब्दं षण्माशमर्ध वा तूष्णीमासीत बुद्धिमान् ॥ १९ ॥ निर्दोषत्वं ततो ज्ञात्वा जलस्थिसा द्रवीकृते । पवित्रितेऽथ गोवासैः श्वभ्रं तत्र च खानयेत् ॥ २० ॥ तैरेव पांशुभिः श्वभ्रं पूरयेत् पुनरेव तत् । अधिके वृद्धिदं विद्याद्धीने हीनं समे समम् ॥ २१ ॥ वन्यमाने तु दृश्यन्ते सर्पमण्डूकवृश्चिकाः ।
२८
Aho! Shrutgyanam