________________
( २१६ ) वास्तुपवेशशयनासनभूषणस्त्री
पहासिलक्ष्मविधयो मुनिशास्त्रदृष्टाः ॥ १॥ 'निम्नं निन्दितमुच्चन्तु प्रशस्तं वास्तुकर्मणि । मागुदक्प्रवणस्थानं निसं वृद्धिकरम्भवेत् ॥ २॥ ऊपरञ्च सवल्मीकं पाषाणसिकताधिकम् । कपालैस्सकलैर्युक्तं दुर्गन्धं निर्वलस्थलम् ॥ ३ ॥ श्लष्मातकविभीताद्यैः संकीर्णञ्च सकण्टकैः । दंष्टीब्याघ्रादिसपैश्च युक्तस्थानं विवर्जयेत् ॥ ४॥ शुभानि यत्र दृश्यन्ते निमित्तं शकुलानि च । जलाशयः समीपे च तत्र वस्तुषु पूजितम् ॥ ५॥ अथोत्तरायने कुर्याद वर्जयेदक्षिणायनम् । ग्रामञ्च नगरं खटं प्रासादगृहमेव वा ॥६॥ पौषं चैत्रञ्च वैशाखं श्रेष्टं मासत्रयविदुः । असायिके तु सम्प्राप्ते श्रवणञ्च परे जगुः ॥ ७ ॥ मीनादिषु त्रिषु निधाय शिरः प्रतीच्यां प्राच्यान्तु वालमवलोक्य च दक्षिणाशाम् । क्षोणी फणीशमधिशय्य विवर्त्ततेऽसौ मासस्त्रिभिस्त्रिभिरतः खलु पृष्टकेन ॥ ८॥ निन्दन्यमुष्य परिवर्तितमासमुच्यै राविध्य तन्न विदधीत गृहं विधिज्ञः। द्वारं तदीयननयनाभिमुखं न कुर्या त्तद्दर्शनेन हिततश्च गृहं प्रवेशम् ॥ ९ ॥ स्त्रीणां शुक्रेऽस्तगे मृत्युं पुंसामस्तमये गुरौ । बास्तुकर्मणि देशस्य न शस्यादधिमासके ॥ १० ॥
१ निम्नम्।
Aho ! Shrutgyanam