________________
( २१४ ) शुक्रःसव्वत्र शुभदः षट्सप्ताष्टान्तिमं विना । त्रिषडायां विनासौरिं सर्वत्र न शुभप्रदः॥ ११२ ॥ अष्टमं शुद्धमेव स्यादिसाह वृहतां पतिः । केचित् सप्तममिच्छन्ति परिशुद्धो विचक्षणः ॥ १२३ ॥ नरग्रहबलात् स्त्रीणां पुमान्भवति वल्लभः । विपरीतेऽन्यथा भतुरादन्यत्र चिन्तयेत् ॥ ११४ ।। स्वाहापतिं पुरष्कृय समन्त्रेण पुरोधसा । विधेयं विधिना वेदे सोत्सवं पाणिपीडनम् ।। ११५ ॥ चतुर्थेऽह्नि विधेयःस्याच्चतुर्थे भौममङ्गलम् । संवेशनविधिश्छात्रसुमुहुर्ते विधीयताम् ॥ ११६ ॥
इति विवाहविधिः।
आस्तिको नास्तिको द्वेषी शस्त्रशास्त्रविशारदः। सुजातो धार्मिमकःशस्तो राजामानं विधीयते ॥ ११७ ॥ पुरातनैरुत्तममुत्तरायनं रचौ तथा सिंहगते च मध्यमम् । उदीरितं राजमुताभिषेचने तथा परैर्दृश्चिकमासि च स्मृतम् १८
ज्येष्ठा श्रेष्ठतमा हरि कमलजस्त्रीण्युत्तराण्यश्विनी तिष्यःपौष्णमथांशुमानितिबुधैरामृतिनां मध्यमम् । अच्छिद्रास्तिथयः शुभा हि नवमी पर्चेतराशीतगु वर्द्धिष्णुश्च विना तुलाजयुवतीः शेषोदयाः पूजिताः॥११९॥ गोसिंहमिथुनाजाली लग्नं वाशिष्टकीर्तितम् । हष्पतिमते कुम्भं हित्वा शेषाः स्थिराःशुभाः॥ १२० ॥ द्वियीयां दशमोश्चापि बशिष्टः पुनरिच्छति । सिंहासनस्थितश्चन्द्रः पूर्बालश्चाथ शोभनः ॥ १२१ ॥ १ शुद्धवैश्यादित्या।
-
Aho ! Shrutgyanam