________________
( २१३ )
रतिप्रिया धनाढ्या च स्थिरभावविवर्जिता ।
परसक्ता दुराचारा विना चापोदयं क्रमात् ॥ १०० ॥ *उढा शेषेषु मेषादिष्वेवम्भवति कन्यका | पूर्वार्दे धनुषः पापा परार्द्ध च पतीव्रता ॥ १०१ ॥ मृत्युरर्थविनाशश्च वन्धुवित्ताप्तिरेव च । भर्तृनाशः सुताभावः पतिलक्ष्मीविवर्द्धनम् || १०२ ॥ वैधव्यं मरणं धर्म्मविच्छेदः शोकनाशनम् । बहुलाभो धनसागो लग्नादिगतभानुना ॥ १०३ ॥ निस्सागो च सुरूपा च प्रिया वन्ध्या च बन्धुनुत् | सपत्नी मरणं प्राप्ता कृपाहीना सुखोत्तरा ॥ १०४ ॥ धनाढ्या धनहीना च कुमारी क्रमशो भवेत् । लग्नाद्यवयवस्थेन विवाहे शिशिरत्विषा ॥ १०५ ॥ धुतमृत्युर्धनसागो धनावाप्तिपरोद्भवः । भर्तृनाशः पतिप्रीतिर्दुवृत्तिलोहिताश्रयः ॥ १०६ ॥ पतिद्वेषं कठोरत्वं लाभः सर्व्वव्ययस्तथा । महीपुत्रेण लग्नादिगतेन परिकल्पितः । १०७ ॥ पतीव्रता शुभा भर्तृपुजिनी बन्धुपूजिता । बहुपुत्रा विनष्टारिर्दुःस्था प्रब्रजिता तथा ॥ १०८ ॥ दानशौण्डा कृशाङ्गी च धनयुक्ता च दुर्भगा । लग्नादिस्थास्नुना चन्द्रपुवेणैवं भवेद्वधूः ॥ १०९ ॥ प्रिया पतीव्रता दुष्टा सती च वहुपुत्रिणी । निःसपत्नी पतिच्छेत्री मन्दायुष्कातिसुन्दरी ॥ ११० ॥ शोभना निससश्रीका धनसक्ता च कामिनी । लग्नाद्यवयवस्थेन स्यादेवं देवमन्त्रिणा ॥ १११ ॥
* उम्मा । १ तस्सहस्वा । २ निश्चागत्य | दद्युस्थाप्रब्रर्जिता । ३ ऋशशीव ।
Aho! Shrutgyanam