________________
( २११ ) आयस्तारा क्रमात्माग्वध्वजधूमादिषु स्थिताः। स्वायःसुजातो मध्यस्थे मध्यमस्त्वधमे व्ययः ॥ ७८ ॥
इत्यायनियमः।
देवताराक्रमात्माग्वदिन्द्रवह्नयादिषु स्थिताः । तुष्टिःमुहृदि मध्यस्थे चोपेक्षा द्वेषणाद्विषौ ।। ७९ ।। रविसाग्निहरिच्छन्ति यमं केचित्सुहृत्तमम् । यमःसर्वत्र वै रीतिहष्पतिमते पुनः ॥ ८० ॥
इति देवनियमः।
तत्तत्तिथिसमुदृष्टदिक्षु यात्रा न. शोभना । तत्तद्ग्रहसमुदृष्टदिङ्मुखो न निषीदतु ॥ ८१ ॥ दिनङ्गणञ्च माहेन्द्रं स्त्रीदीर्घश्चाथ योनयः । राशिराश्याधिपोऽवश्यं रज्जुर्वेधस्ततः परम् ॥ ८२ ॥ भूतं लिङ्गश्च जातिश्च गोत्रम्पतिविधिस्तथा । योगिन्यायश्च देवश्च वर्गास्त्वष्टादशेरिताः ॥ ८३ ।। सर्वेष्येतेषु शास्त्रेषु विवाहःश्रेष्टसम्मतः। नवाधिकेषु मध्यः स्यान्नवोनेष्वधमो भवेत् ॥ ८४ ॥ गणो योनिश्च वेधश्च रज्जुराश्याधिपस्तथा । लिङ्गश्च योगिनीचेति प्राधान्येनेह कल्पिता ॥ ८५ *क्षेत्रस्यमूलमान्येन मित्रयोश्च परस्परम् । सयसन्धाविधौ चैवमवश्यं स निरूपयेत् ॥ ८६ ॥ घुमानेकोऽपि नारीणामनेकासां पतिय॑तः । साध्वी तु कामिनी तस्मायोजनोयानुकूलतः ॥ ८७ ॥ विशेषादनुकूलः पक्षे वद्धिष्णुशीतगौ । अर्द्धरात्रे त्रयोदश्यां पञ्चदश्यामथापि वा ॥ ८८ ॥
Aho! Shrutgyanam