SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ( २१० ) पञ्चमः सप्तलाभी स्यादित्येवं पक्षितारकाः । भिन्नपक्षिषु नाशः स्यादेकपक्षिषु शोभनम् ॥ ६७ ॥ इति पचिनियमः । -000 प्रथम नवमी चैव ब्रह्माणीध्वज एव च । इन्द्रोरविरथैते षट् प्राचीन्दिशिमुपाश्रिताः ॥ ६८ ॥ द्वितीया दशमी धूमः कौमारी भौम एव च । अग्निश्च षडिमे सर्व्वे माग्दक्षिणदिशि स्थिताः ॥ ६९ ॥ तृतीयैकादशी सिंहो देवमन्त्री यमस्तथा । वाराही च तथैते षट् दक्षिणस्यां दिशि स्थिताः ॥ ७० ॥ चतुर्थी द्वादशी चैत्र वैष्णवी चन्द्रनन्दनः । निरुतिः सारमेयश्च स्थितो दक्षिणपश्चिमे ॥ ७१ ॥ पञ्चमी च त्रयोदश्यां सार्द्धमैन्द्री कृपा तथा । वरुणः शुक्रसंयुक्तः पश्चिमान्दिशमाश्रितः ॥ ७२ ॥ षष्टी चतुर्दशी चैव चामुण्डीकर एव च । पवनः शिखिना युक्तः पश्चिमोदग्दिशि स्थितः ॥ ७३ ॥ सप्तमी पौर्णमासी च गजो माहेश्वरी तथा । शशी वेश्रवणश्चैवमुत्तरस्यां दिशि स्थितौ ॥ ७४ ॥ अमावास्याष्टमी चैव राहुः काकस्तथेश्वरः । महालक्ष्मीरिति प्रोक्ता प्रागुदग्दिशि संस्थिता ॥ ७५ ॥ ब्रह्माणि पूर्वदेवनमस्वाद्यमण्डलैस्त्रिभिः । योजनीयास्त्रयश्चान्यं वैष्णव्याधीनमीरितम् ॥ ७६ ॥ तारकास्तुल्ययोगिन्यो दम्पत्योरतिशोभनाः । अनिष्टाः भिन्नयोगिन्यो न चिरान्मरणप्रदाः ॥ ७७ ॥ इति योगिनीनियमः । -000 १ पश्चिमोदमदिशि स्थिताः । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy