________________
( २०४ ) दैवज्ञं सुखमासीनं सम्पूज्यादौ यथावलम् । दम्पसोराख्यया सार्द्ध सकृत् पृच्छेच्छुभाशुभम् ॥१३॥ तत्कालवाक्ये केन्द्राभ्यां ततो ज्ञात्वा शुभाशुभम् । त्रिकालज्ञा इवाचष्टे दैवज्ञः शास्त्रचक्षुषा ॥ १४ ॥ लग्ने पापग्रहैर्युक्ते नीचशत्रुग्रहस्थिते । अष्टमे सप्तमे चैव दम्पसोर्न शुभस्तदा ॥ १५ ॥ . पापयुक्तोदयाचन्द्रः षष्टे वाअष्टमे स्थितः। विवाहसमयान् मृत्युं दद्यादब्देऽष्टमे तयोः ॥ १६ ॥ प्रभलग्ने यदा चन्द्रस्तस्मात् षष्ठाष्ठमे कुजः । अष्टान्दैर्मनुजो याति यमालयमपुत्रकः ॥ १७ ॥ लग्नाष्टमे यदा पापा रिपुनीचनिरीक्षिताः। विधवा सा भवेत् कन्या लग्नं पापयुतं यदि ॥ १८ ॥ नीचस्थ शत्रुसंदृष्टः पापः पञ्चमगो यदि । कुलटा सा भवेत् कन्या मृतपुत्राथवा भवेत् ॥ १९ ॥ स्थितौ यदेन्दुमाहेयौ लग्नसप्तमयोः क्रमात् । यमालयं तदा याति सप्तमे मासि मानवः ॥ २० ॥ सप्तमं यदि शून्यं स्यात् दुर्वलं दुर्घहे क्षितम् । सौम्यग्रहदशा हीनं भर्ता कापुरुषो भवेत् ॥ २१ ॥ मन्दे सप्तमराशिस्थे पापशत्रुनिरीक्षिते । कन्यैव विधवा भूत्वा जरामपि च गच्छति ॥ २२॥ पापः पञ्चमराशौ चेद्वन्ध्या वा पुत्रनाशिनी । नीचारिराशौ पापश्चेद्रीतपुष्पा भवेद्वधूः ॥ २३ ॥ पुत्रस्थेषु शुभेष्वेषु बहुपुत्रवती भवेत् । स्वःतुङ्गत्रिकोणेषु तत्पुत्राः बहुजीविनः ॥ २४ ॥
इतिविवाहप्रश्ने शुभाशुभनियमः।
-000
-
-----
Aho! Shrutgyanam