________________
( २०३ ) मध्ये ब्रह्माणमाधाय क्रमशस्तान समर्चयेत् । इन्द्रः सुरभितृप्तः स्याद्यमः पुष्पेण मोदते ॥ ५ ॥ वरुणो धूपतृप्तःस्यात् सोमो दीपेन तृप्यति । ब्रह्मा तु सव्वैरतश्च पूर्णकुम्भैश्च तण्डुलैः ॥ ६ ॥ पयोदधिघृताभ्यक्तान पिण्डान शाल्योदनान हितान् । कुक्कुटाण्डप्रमाणांस्तान पञ्चषांश्च सुयोजयेत् । जलसम्प्रेक्षणश्चैव स्वस्वमन्नैर्विधीयते ॥ ७ ॥
दीर्घायुःसुमङ्गला च इन्द्रदिग्देवेभ्यः स्वाहा ॥ ऑचिरं तिष्टतु दीर्घायुयाम्यदिगदेवेभ्यः स्वाहा । ओंभद्रो वरुणदिग्देवेभ्यः स्वाहा ॥ ओश्रेयः सौम्य दिगदेवेभ्यः स्वाहा ॥ ओंपुत्रपौत्रद्धिः स्याच्चतुर्मुखेभ्यः स्वाहा ॥ अङ्कताकङ्ककताश्चैव कुन्द्रपुत्रास्तथैव च । बायसा ब्रह्मपुत्राश्च बलिं गृह्णन्तु ओनमः ॥ ८॥ प्रणम्य मन्त्रेणानेन दूरे स्थित्वा निरीक्ष्यताम् । प्रथमग्रस्तपिण्डेन तत्र विद्याच्छुभाशुभम् ॥ ९ ॥ ऐन्द्रे पुत्रविद्धिःस्याद्याम्ये भर्तृविनाशनम् । वारुणे कुलनाशःस्यात् सौम्ये स्यात् पुत्रपौत्रकम् ॥ शुभं ब्रह्मे बहुविधं विनिश्चिस विनिर्दिशेद ॥ १० ॥ पुमानाममयःस्थूलः सर्वेषां प्रियदर्शनः । बलिभुक् प्रथमं ग्रासि सर्वस्मिन्नतिदोषदः॥ ११ ॥ सर्वत्र शुभकार्ये च युद्धे बन्धविमोक्षणे । इदं विधानमुद्दृष्टं सममेव पुरातनः ॥ १२ ॥
इति वायसबलिविधिः ।
--000---
Aho ! Shrutgyanam