________________
( १९८ ) दुःस्थासुखी जडो मूखों जयी रुग्णोऽतिमृत्युभाक् । दुःखी दुर्वचन श्रीमान् भीतो व्याधिःसुभानुना ॥ २९ ॥ शान्तामुखी शुभः शुद्धो रुग्णः पीतो महामयः।। धर्मकृत् भूर्जितस्तुष्टः साधुर्व्याधिःशुभेन्दुना ॥ ३० ॥ दुर्गमः मुखितस्तप्तो विपन्नो मुदितः प्रियः । आर्तः शोकी भयी रुपी दीनाङ्गः क्षितिमनुना ॥ ३१ ॥ विना षष्टाष्टमं जीवसौम्यौ सर्वत्र शोभनौ । सर्वत्रेष्टः सितस्यक्ता सप्तमं षष्टमष्टमम् ॥ ३२ ॥ हीनःप्रीतोऽधिरोगश्च मूल् ज्ञानी महाभयः। मृत्युभार दुःखितःक्लिष्टःसुखी दुःखी च भगुरः ॥ ३३ ॥ त्रिषडायं विना राहुकेतू सर्वत्र दूषणौ । अष्टमस्थानगा:सर्वे दारायुःक्षयं ग्रहाः ॥ ३४॥ कुष्टी क्षयी ज्वरार्तश्च बुद्धिमान् स्वकुलोत्तमः । शिक्षितःमुव्रतश्चेति लग्नस्थैर्भाष्करादिभिः ॥ ३५ ॥ बुधार्कशुकाः कायलग्नगाः क्रमशो यदा । चन्द्रःशुभांशके योगः शुभश्चोपनये मतः ॥ ३६ ॥ मेषगोकर्कटमाप्ताः भानुशुक्रेन्दवो यदा । यमोदये भवेद्योगों हिजोपनयने शुभः ॥ ३७॥ नानामङ्गलतूर्येण पुण्याहपदपूर्वकम् । शिशुमन्त्रसमुच्चारैरुपनेयं पुरोधसा ॥ ३८ ॥
इत्युपनयनविधिः । अथोपनयनादृर्व विद्यारम्भः शुभः शिशोः। कन्यासमागते भानौ ततो मासत्रयं शुभम् ॥ ३९ ॥ ताराश्चतस्रः सौम्याद्यास्तिस्रो हस्तादिकास्तथा । मैत्राश्विहरयःपूज्याः विद्यारम्भे मनीषिभिः ॥ ४० ॥
Aho ! Shrutgyanam