________________
( १ ) उत्तराणां त्रयं पौष्णं रोहिणीञ्चैव मध्यमम् । वसुवारुणमूलानि शुभदानीति केचन ॥ ४१ ॥ मूलं वशिष्टमुनिना शास्त्रारम्भे निराकृतम् । पर्वरिक्ताष्टमी षष्ठी द्वादशी प्रतिपत्तथा ॥ ४२ ॥ गर्हिता विबुधैःकेचित् पूर्णमिष्टतमा विदुः । केचिन्नेच्छन्ति निपुणाः सप्तमी च त्रयोदशीम् ॥ ४३ ॥ शुभदुष्टः शुभांशस्थश्चन्द्रस्तत्रापि दोषनुत् । मन्दमाहेययोोर्नन्द्याहारवर्गोदयादयः ॥ ४४ ॥ मध्यमाः रविशीतांश्वोः शेषाणामुत्तमाः स्मृताः। चरस्थिरोभया पक्या मध्यमाधमपूजिताः। अष्टमं शुद्धमिच्छन्ति केचित् पश्चममेव वा ॥ ४५ ॥ त्रिषडायगताः पापाः शुभाः सौम्याश्च कण्टके । शस्त्रशिक्षाहिता मित्रविष्णुत्रयरवीश्वराः ॥ ४६॥ गुरुभार्गववाराद्याः विदोषास्तिथयोऽपि च ॥ चित्राश्विरविशक्राश्च परघातविधौ शुभाः। मूलाश्विपितरश्चापशिल्पेभौमार्कवारयोः ॥ ४७ ॥ कुन्ताभिक्षुरिकाभ्यासे वाजिवारणविग्रहे । मल्लाङ्गकारशिक्षामु महानसविधौ तथा ॥४८॥ पौष्णश्रवणरोहिण्यां सौम्यं वायूत्तरत्रयम् । रुद्रतिष्ये तु शुभदे सौरभ्यकरणेषु च ॥४९॥ श्रीश्वनाचावीशक्षामु गजशिक्षासु सोमभम् । तयोरारोहणे पौष्णं हरिब्रह्मोत्तरवयम् ॥५०॥ खरोष्ट्रमहिषादीनां शिक्षने च यमात्रयम् । हयानां वारुणाश्चिन्यौ व्यवायेषु शुभप्रदौ ॥ ११ ॥ 'भेरितालादिशास्त्रेषु भरतेषु विशेषतः । १ कालादि।
Aho! Shrutgyanam