________________
विधिरष समो नूतनकम्बलस्तरणादिके। विशेषोऽत्रकलत्रस्थो देवमन्त्री न शोभनः ॥ १८ ॥
इत्याच्छादनविधिः।
आपष्टं पंञ्चमादूर्ध्व वर्षादादशमाद्विजम् । एकादशाब्दे राजन्यं वैश्यं वा द्वादशे तथा ॥ १९ ॥ उपनेतुमुपाध्यायैः कालयोगोऽयमीरितः । अतिषोडशिको विमो नोपनेयःकदाचन ॥ २० ॥ क्षत्रियो विशतेरुर्वान्न वेश्यः पञ्चविंशकात् । प्रशस्तषणाभ्येते वृषला एव सम्मताः ॥ २१ ॥ अयन्तूपनयो नाम यज्ञसूत्रनिवेशनम् । द्वितीयजन्मवत्मोक्तं व्रतोपादानमिसपि ॥ २२ ॥ सितेज्यमूढबालत्वं वृद्धता दक्षिणायनम् । अधिमासश्च वर्ग्यः स्यात् कृष्णे चान्तिमपञ्चकम् ॥ २३ ।। प्रतिपतपर्वरिक्ताभिनितास्तिथयःशुभाः। शुभाः सौम्येन्दुजीवानां वारवर्गोंदयादयः ॥ २४ ॥ त्रिषूत्तरेषु रोहिण्या हस्ते पौष्णे पुनर्चसौ । वासवत्वाष्ट्रसौम्येषु श्रेष्टस्तूपनयो मतः ॥ २५ ॥ मेषे भवति वा कुष्टी वित्तविद्याजितो दृषे । मिथुने वेदार्थदर्शीकः कयाँ निसं षडङ्गवित् ॥ २६ ॥ शिल्पकर्मकरः सिंहे षष्टे भवति पण्डितः। तुलायान्तु वणिर्ति काण्डप्लुष्टोऽथ वृश्चिके ॥ २७ ॥ सर्बत्र पूजितश्चापे शून्यत्तिामृगे तथा । राजप्रेष्यकर कुम्भे मीने शास्त्रार्थपारगः ॥ २८ ॥ १ अतूपनयनो । २ सितव्य मुडिबालम्तं ॥
Aho ! Shrutgyanam