________________
न तेषामाप कालोऽस्ति क्षुरं निसं स्पृशन्ति ये। दन्तधावनमिच्छन्ति व्रतीनां प्रतिवासरम् ॥ १६२ ॥ शुक्रार्कवारावन्येषां विहितौ दन्तधावने । गुरु गुर्बा शीतांशुरुदयस्थो बलान्वितः। यापचयगो लग्नाच्चूडायोगोऽयमुत्तमः ॥ १६३ ।। सशुक्रे सबुधे कुम्भलग्ने व्ययगते रवौ । त्रिकोणगे गुराविन्दौ चूडायोगोऽयमुत्तमः ॥ १६४॥ भवव्ययोदयेष्वर्कबुधशुक्राः यदा स्थिताः । चन्द्रे शुभांशके केन्द्रे चूडायोगोऽयमुत्तमः ॥ १६५ ॥ सुमनोक्षतदुर्वाकं तोयमभ्यक्षमस्तके । ध्यात्वा भगवती लक्ष्मी जपमेवमुदीरयेत् ॥ १६६ ॥ पालयन्तु सुराःसर्वे त्वामविघ्नं शतायुषा। ऋद्ध्या कान्या घिया स्मृखा निसं त्वामपि वर्द्धयेत् १६७ पान्तु सन्ततमेव त्वां प्रसन्ना देवमातरः । दीर्घमङ्गलसयुक्तो यूना त्वं सुभगा भव ॥ १६८ ॥
पुंसस्त्रियश्च क्रमशोऽभिमन्त्र्य समङ्गलं दक्षिणपाणिनैव । प्रदाक्षिणं मूर्द्धललाटशङ्के
मुपस्पृशेत्तं निशितचरेण ॥ १६९ ॥ धात्रीभृङ्गरसं प्रस्तं तैलश्च क्षीरमाढकम् । यष्टयाअनफलं तैलं तत् केशाक्षिशिरोहितम् ॥ १७० ॥ तटाककूपशुद्धिश्च गजदन्तनिकृन्तनम् । नौकादीनां जले क्षेपः क्षौरयोगवदिष्यते ॥ १७१ ॥
इति चौरविधिः।
---000१ध्यकान्तादियस्मृत्या। २ युता । ३ सुपप्रशस्तन्तिसितक्षुरेण ।
Aho! Shrutgyanam