________________
( १६३ )
स्त्रीणां वारादयश्चेन्दोर्विप्राणान्तु शुभा रवेः । क्षत्रियाणां क्षमासूनोः पातङ्गेर्वैश्यशूद्रयोः ।। १५० आधानजन्मनक्षत्रवैनाशिकगते विधौ । अष्टमं राशिमाप्ते च क्षौरं मृत्युकरं भवेत् ॥ १५१ ॥ आकोकेरश्च मत्स्यश्च बुधशुक्रेन्दुराशयः । सर्व्वेषां सिद्धिदातारः शुभवारोदयादयः ॥ १५२ ॥ चित्तविक्रमपुत्रस्त्रीधर्मकर्म्मायगः शशी । चरे चन्द्रज्ञजीवाश्च क्षौरे सौभाग्यसाधकाः ॥ १५३ ॥ त्रिषडायगताः पापाः शुभाःसंशुद्धमष्टमम् । यमभार्गवभौमाख्याः सप्तमस्थाः शुभच्छिदः ॥ १५४ ॥ क्षौरं यात्राविधानञ्च पुत्रस्य पितृजन्मनि । भयं विनमदं माहुः कुमार्य्यो मातृजन्मनि ॥ १५५ ॥ अभ्यङ्गभुक्तियात्राषु स्त्राने वा भूषितेऽपि वा । सन्ध्यानिशासु संग्रामे क्षौरं नेष्टं निरासने ॥ १५६ ॥ शासने राजविप्राणां व्रतान्ते मृतसूतके । बन्धमोर्क्षे च दीक्षायां क्षौरं नाव विचार्यते ॥ १५७ ॥ अशुभ कृते क्षौरे कुर्य्यात् क्षिप्रं पुनःशुभे । पञ्चगव्येन मधुना केशान्निव्र्व्वापयेद् बुधः || १५८ ॥ दर्शे प्रतिपदष्टम्योर्मासिस्त्रीतैलसेचनात् । चतुर्दश्यां तथाष्टम्यामाहुरायुक्षयम्बुधाः ॥ १५९ ॥ पञ्चदश्यां चतुर्दश्यामष्टम्याञ्च त्रिजन्मसु । क्षौरं व्यवायं तैलञ्च वर्जयेदन्तधावनम् ॥ १६० ॥ राजकार्य्यनियुक्तान नटानां रूपजीविनाम् | रोमनखच्छेदे नास्ति कालविशिष्टता ॥ १६९ ॥
१ स्वरेचक्षत्रजीवाश्च । २ निर्वापयेत् ।
२५
Aho! Shrutgyanam