________________
( १६१ ) पौष्णादितीन्दुहस्तावित्वष्ट्राबायव्यविष्णवम् । रोहिणीचैत्रतिष्येव वारुणा चोत्तरत्रयम् ॥ १२९ ।। श्रविष्टा च तथा हेते षोडशानासने शुभाः। भोक्तुर्नवत्वे सम्मोक्तास्ते च नूतनभोजने ॥१३०॥ मघा विशाखा मूलाच शिष्टा नेष्टास्त्रयोऽपिच । शिष्टे तु भरणी कैश्चिच्छुभदृष्टाच्छुभाःस्मृताः॥ १३१ ।। पक्षच्छिद्रश्च विष्टिश्च रिक्ताश्चैव विवर्जयेत् । शुभानां विगतेन्दूनां वारासाद्याःसुशोभनाः ॥ १३२ ॥ वृषचापघटा कन्यातुलानक्रमृगाधिपाः। ककित्वे ते शुभा मोक्ता नवत्वे भोकृभोज्ययोः ॥१.३३॥ कुजक्षेत्रञ्च मीनञ्च न कदाचिच्छुभप्रदम् । मध्यमं मिथुनं प्रोक्तं राशीनां केवलं फलम् ॥ १३४ ॥ निन्दिता भोजने जन्मविपत्मसारिमृयवः । ग्रहाःकर्मगताः सर्वे शिशोःप्राणविनाशकाः ॥१३॥ कुजोऽष्टमे शशी लग्ने सप्तमे सितचन्द्रजौ। नेष्टौ बुधमहीपुत्रौ तथैवाष्टमधर्मगौ ॥ १३६ ॥ भुक्तौ शुभकरो योगो जीवे केन्द्र त्रिकोणगे । त्रिषडायास्तथैकस्मिन् क्रूरे बलसमन्विते ॥ १३७ ॥ इन्दुस्सत्कर्मकर्ता चेच्छुभांशे गुरुवीक्षितः । शुभो यदि बली केन्द्रे योगोऽयं बहुसिद्धिदः॥ १३८ ॥ शुक्ल पक्षे शुभांशस्थे चन्द्रे जीवे त्रिकोणगे । शुक्रे च कण्टके लग्ने योगोऽयश्च मृतोपमः ॥ १३९ ॥ नानाविधैर्मङ्गलतूर्यनादैः पुण्याहघोषेण च मोदमानम् ।
बालं शुचिमानविभूषिताङ्गं
१ त्वाष्ट्रावासवद्यविष्णम् ।
Aho! Shrutgyanam