________________
( १६२ ) पिता च मातापि च भोजयेत्तम् ॥ १४० ।। पूर्णेन्दुमण्डलं तत्स्थं जलं वा चतुरीयकम् । ध्यात्वा तं भोजयदेवमायुरारोग्यमश्नुते ॥ १४१ ॥ शुभाङ्गस्थे निशानाथे रोहिण्यां पितृभेऽथवा । वहयादिफलान्यद्यात सिंहलग्ने शुभेक्षिते ॥ १४२ ॥ फलाग्रभुक्तौ तु झषः प्रषूनःपर्णाग्रभुक्तावजश्चिकौ च । वृक्षो क्षणो बाजिगजोपभुक्तो बालान्नभुक्ताविव सर्वमाहुः १४३ नवे कनकपात्रादौ कटकादौ च नूतने । अन्नप्रासनवत् पाहुर्विधानं विधिवेदिनः ।। १४४ ॥
इत्यन्नप्रासविधिः।
--000----- - कुर्वन्यकाले ये क्षौरं तेषां वर्षशतायुषाम् । अग्मिरणमभ्येति ततः क्षौरं विचारयेत् ॥ १४५ ॥ तृतीयेऽब्दे शिषोर्गर्भात्पश्चमे सप्तमे ऽपि वा। सहोपनयने वापि केचित् क्षौरविधि जगुः ॥१४६ ॥ वर्जयेद् दधिमासश्च दक्षिणायनमेव च । उपरागावसानञ्च मूढत्वं जीवशुक्रयोः ॥ १४७ ॥ चित्राश्विनीमृगशिरोऽदितिहस्तपौष्णा ज्येष्ठासुरेढयहरयः प्रवरास्तु चौले । स्वात्युत्तरत्रयधराम्बुधयश्च मध्यः सौम्योदयांशकदिनानि शुभावहानि ।। १४८ ॥ पीरक्ताष्टमी षष्टी प्रतिपद्वादशी तिथिः। वर्जनीयाः शुभा केचित् पूर्णच द्वादशी विदुः ॥ १४९ ॥
१ विधिवधिनः।
Aho ! Shrutgyanam