________________
( १८४ ) तिललाजानकुल्माष मत्स्यमांसमुरादधि । प्रतिमां फलकस्थाञ्च कौबेर्या दिशि दापयेत् ।। ५९ ॥ स्नानं पञ्चदलैधूपः पिजेन क्षुररोमभिः । चञ्चला पञ्चमे वर्षे ज्वरस्त्रासोऽङ्गसादनम् ॥ ६० ॥ बालस्य तिलकृष्णान्नैः कालेऽनुक्ते बलिं निशि । धूपयेन् मेषशृङ्गण स्नानं स्यात् पञ्चपवयुक् ॥ ६१ ॥ पलासो दुम्बरास्वत्थवटविल्वदलं हितत् । धावती वत्सरे षष्ठे वैवर्ण मुखशोषणम् ॥ ६२॥ उद्वेजनं बहुमूत्रस्रवणं गावसादनम् । तिलोद्भवसुरामत्स्यमांस पकसुरादधि ॥ ६३ ॥ क्रसरं पायसञ्चभिः सप्तरावि वलि हरेत् । स्नानं पञ्चदलैधूपो लशुनीकेशरादिभिः ॥ ६४ ॥ सप्तमे यमुनाच्छादिनाना होरोऽङ्गसादनम् । मत्स्यं मासं सुरासक्तुक्रसरम्पायसं दधि ॥६५॥ एभिःस बोलिकापूपैत्रिरावि च हरेद्वलिं। स्नानं पञ्चदलैबूंपो गोशृङ्गाररोमभिः ॥६६॥ जाते चेदष्टमे वर्षे निराहारः प्रकोपनम् । मत्स्यमांसं दधि क्षौद्रं घृतान्नं पायसं पयः ॥ ६७ ॥ एतैश्च क्रसरापूर्बलिं दत्वार्द्धरावतः। चत्वरस्ते तिलै कुण्डे पश्चाहममुना हुनेत् ॥ ६८ ॥ कुष्माण्डिनी भगवती रजनी समुदिताधुना । ज्ञापयति मुश्चदह सरबालकान् गच्छ ॥ ६९ ॥ राजी निम्बदलैधूपः कालिनी नवमी ग्रही। तच्चेष्टा गर्जनं त्रासो बाहोरस्फोटनं मुहुः ॥ ७० ॥ बलि स्यात्क्रसरापूपसक्तुकुल्माषपायसैः । ॐ मुञ्चपञ्चदहजय आगच्छ वालिके ॥ ७१ ॥
Aho ! Shrutgyanam