________________
( १८३ ) तापसी दशमे मासे निराहारोऽक्षिमलिनम् । उद्वेदनश्च गात्राणां पीत्तं रक्तमथोदनम् ॥ ४७ ॥ घण्टा पताका पिष्टोत्था मत्स्यमांससुरासवम् । सौम्यायां दिशि मध्याह्ने बलियेभिःसमाहरेत् ।। ४८ ।। बलिमेकादेशे मासे ग्रही गृह्णाति राक्षसी। तच्चिद्रं नेत्रयोरन्धं तस्य नैव चिकित्सितम् ॥ ४९ ।। चपला द्वादशे मासे वास:स्वासश्च चेष्टितम् । कुल्माषपुष्पदग्धान्नतिलचूविधानवित् ॥ ५० ॥ माहेन्द्रदिशि मध्याह्ने सप्तरावि बलि हरेत् । एताःस्युर्मासिकं ग्राह्यं पूतनापदपूर्वकात् ॥ ५१ ॥ द्वितीये वत्सरे वालं ग्रही गृह्णाति यातना। पतनं रोदनं दाहो निराहारोऽक्षिमीलनम् ॥ ५२ ॥ मत्स्यमांसं तिलं मद्यं गुलं स बोलिका दधि । कुल्माषलाजागन्धादिस्तैः प्राच्यां वलिमाहरेत् ॥ ५३॥ स्नानं पञ्चदलैधूपं केशगोदन्तगोक्षुरैः। तृतीये वत्सरे वालं ग्रही गृह्णाति रोदनी ॥५४॥ विन्मूवसक्तसमिश्रज्वरो हस्तस्य कम्पनम् । प्ररोदनं मुहुर्गात्रं पद्मकेशरसन्निभम् ॥ ५५ ॥ गुलोदनं तिलं पूपं कुल्माष स्वित्रफल गृषम् । दधिसक्तुफलं लाजा प्रतिमाशालिपिष्टजा ॥५६ ॥ एमिास पुष्पगन्धाद्यैः प्राच्यां दिशि बलिं हरेत् । स्नापयेत् पञ्चपवैस्तु धूपैराजीफणित्वचा ॥ ५७ ॥ चतुर्थे चटकासोमो ज्वरःसर्वाङ्गसादनम् । अवीक्षणं मन्दाहारो वामपादस्य कम्पनम् ॥ ५८ ॥
१ दध्यन्न ।
Aho ! Shrutgyanam