________________
( १८२ ) गोगन्धो मधुगन्धो वा विन्मूत्रश्रवणं तथा ॥ ३५ ॥ जपापियङ्गु पललं कुल्माष शाकमोदनम् । क्षीरश्च पिण्डकं दीपं दत्वा प्राच्यं वलिं हरेत् ॥ ३६॥ मध्याह्ने पञ्चपत्रेण स्नानं धूप्येत सर्षपैः । चतुर्थी पिङ्गला गात्रशोषणं दारुणो रवः ॥ ३७॥ विश्रम्भेन पयःपानम्पूतिगन्धः सिता तनुः। भुजस्य कम्पनं तस्याश्चिकित्सा न विधीयते ॥ ३८ ॥ पश्चमी लवना गात्रसादनं मुखशोषणम् । श्रद्धया पायसम्पानं पीतवर्ण प्ररोदनम् । मत्स्यमांशानशाकायैः पिष्टभेदैर्बलिं हरेत् ॥ ३९ ॥ मध्याह्ने दक्षिणाशायां षण्मासे पङ्कजी ग्रही । तञ्चेष्टारोदनं कुक्षिशूलनं विक्रमस्वराः ॥ ४० ॥ शिखिकुक्कुटमेषाणां मांसं सक्तुकुलत्थकम् । मांसोदनं मुरापुष्पगन्धादिस्तैर्बलिं हरेत् ॥ ४१ ॥ शीतला सप्तमे मासे 'निराहारोऽङ्गमाटनम् । दन्तखाद्याद्यति गन्धः समाषान्नसुरातिलैः ॥ ४२ ॥ पदमादिपुष्पकुल्याषपिष्टशाकैर्बलिं हरेत् । अष्टमे यमुनामोहस्तनितं मुखशोषणम् ॥ ४३ ॥ स्फोटिकाःसर्षपाकारास्सगात्रेषु कम्पनम् । चिकित्सा नच कर्तव्या नवमी कुम्भकर्णिका ॥ ४४ ॥ अश्रद्धया पयःपानं तच्छाईदारुणो ज्वरः। रोदनं पाटलो गन्धी मांसं मत्स्यमुरापयः ॥ ४५ ॥ कुल्माषमन्नं पललं गन्धपुष्पश्च दापयेत् । ऐशानी दिशमाश्रिख मध्याह्ने बलिमाहरेत् ॥ ४६॥
१ नीराहारातमाटनम् ।
Aho ! Shrutgyanam