________________
( १८१ ) नादःपरोदनं काशःपूतिगन्धश्च जृम्भणम् ॥ २२ ॥ धूपो व्याघ्रनखैल्लेंपो वचामूत्रत्वगामयैः । त्रिदण्डी चाष्टमी जिह्वा चालनं त्रासरोदनम् ॥ २३ ॥ दिशानिरीक्षणे देयो मत्स्यादिः सर्वतो बलिः बचालसुनसिद्धार्थहिगुभिधूपलेपने ॥ २४ ॥ महामहेसी नवमी तच्चेष्टा वासरोदनम् । उद्वेजनो निःश्वासौ स्वमुष्टिद्वयखादनम् ॥ २५ ॥ वक्रचन्दन कुष्टोग्रा सर्पपल्लेपयेच्छिशुम् । कपिरोमनखैधूपदशमी रोदनी ग्रही ॥ २६ ॥ तच्चैष्टा रोदनं शश्वत् सुबन्धो नीलवर्णता । धूपो निम्बेन कुष्टोग्राराजीसर्जरसैल्लिपेत् ॥ २७॥ वलिश्च निर्हरेल्लाजाकुल्माषचरकोदनैः। यावत्रयोदशाहं स्यादेवं धूपादिका क्रिया ॥२८॥ गृह्णाति माषिकं वत्सं पूतनासकुणी गृही । काकवद्रोदनं स्वासो गृध्रगन्धोऽक्षिमीलनम् ॥ २९ ॥ रक्तमूत्रश्च कृच्छ्रेण गोदन्तनखधूपनम् । पीतवस्त्रं दिशेद्रक्तं स्रग्गन्धं तैलदीपनम् ॥ ३० ॥ त्रिविधं पायसं मद्यं तिलं मांसं चतुविर्धम् । करजायो यमदिशि सप्ताहं तैर्बलिं हरेत् ॥ ३१ ॥ द्विमासिकञ्च मकुटा वपुःपीतश्च शीतलम् । स्मानपानं न रोचेत तच्छुहि मुखशोषणम् ॥ ३२ ॥ श्रीवाचि वृत्तनिष्पन्दाः पायसं तिलतण्डुलम् । अपूपमोदनं दीपं पुष्पगन्धांशुकानि च ॥ ३३ ॥ कृष्णानि दीपयेत्तस्य दीपं तैलेन सर्चतः । धूपयेनिम्बपत्रैस्तु कुशुम्भलमुनीयुतैः ॥ ३४ ॥ तृतीया गोमुखी तस्याश्चेष्टा निद्रा प्ररोदनम् ।
Aho! Shrutgyanam