________________
( १८५ ) अनेन पूर्ववदबुध्वा कुर्यात् स्नानं सधूपनम् । दशमे कलहंसौ स्याहाहोऽङ्गकृशता ज्वरः ॥ ७२ ॥ बोलिकापूपदध्यनैः पञ्वरात्रि वलिं हरेत् । लेपयेत्तं वचाकुष्टलशुनैः सर्षपान्वितः ॥ ७३ ॥ धूपं निम्बदलै कुर्यात् सगोरोमगजद्विजैः । एकादशे देवदूती हासःपानाशनं बहु । विकारा वहवोऽङ्गानां निसं 'वल्हीनधावनम् ॥ ७४ ॥ यामियामीतिविन्मूत्रस्रवणं स्वगृहे क्षणम् । गात्रोवेगोऽक्षिरोगश्च क्रीडनं निष्टुरं वचः ॥ ७५ ॥ कोद्रवानं लाजदधि कुल्माषपूपबोलिकाः । पकं मांसं स्विन्नमत्स्यं मयं पुष्पं हयारिजम् ॥ ७६ ॥ बलि स्यात् कुंकुमाढ्यैःस्यात् स्नापनं पञ्चमात्रिकम् । धूपयेत्तगरोपेतैर्महिषाक्षनखामयैः ॥ ७७ ।। बालिका द्वादशे वर्षे श्वासो नयनयोर्गदः । काकारवश्च तच्चेष्टा शाककुल्माषसक्तवः ॥ ७८ ॥ बोलिकामोदकापूपसक्तुलाजपयोघृताः। गुलं पकं मत्स्यमांसं त्रिरात्रं तैर्बलिं हरेत् ॥ ७९ ॥ राजिनिम्बदलैधूपो वायसी च त्रयोदशे । तच्चेष्टा मुखवाद्याङ्गं सादनं मुखशोषणम् ॥ ८० ॥ रक्तानगन्धमालाधैर्बलिःपञ्चदलैःश्रवः । राजीनिम्बदलैधूपो यक्षिणी च चतुर्दशे ॥ ८१ ॥ शूलनं ज्वरदाहौच पिबच्चाभ्यञ्जयेत् घृतम् । शाल्योदनं मुरामांसमत्स्यकुल्माषपायसैः ॥ ८२ ॥ सलाजक्रपरैर्दद्यान्मध्याह्ने त्रिदिनं वलिम् । नानं पञ्चदलै कुर्यान्मुञ्चकास्यात् त्रिपञ्चके ॥ ८३ ॥ १ वल्कन ।
Aho! Shrutgyanam