________________
( १७९ ) सातस्य विधिःशिशुग्रहबलिालाभिधानक्रिया। बेधःकर्णयुगस्य निष्क्रमविधिर्गेहात्ततः प्रासनं क्षौरञ्चेति वयःक्रमेण विधयस्सप्ताव सन्दर्शिताः ॥ १॥ कुमारग्रहनाशाय वालारिष्टजयाय च । ग्रहाणां सम्प्रसादाय जातकर्म विधीयते ॥२॥ जातकर्मविधि पाहुः कुमारे जातमात्रके । प्रान्नाभिकर्त्तनस्नानादथवा स्तनपानतः ॥ ३ ॥ त्रिष्वतीतेषु कालेषु शुभयोगे शुभोदये । जातकर्म ततःकुर्यादायुःश्रीद्धिहेतवे ॥४॥ तातः शुचिस्नानविभूषिताङ्गः प्रमोदवान् मङ्गगलवादवादैः। आनन्दितः शङ्खमृदङ्गनादैः कलामिवेन्दोस्तनयं निरीक्ष्य॥५॥ दुर्वाक्षतप्रश्ततधूपदीपैनीत्वा ततोरिष्टग्रहात्प्रधानम् । तद्धान्यपद्मोर्ध्वगतः कुमारमाघ्राय शीर्षे जपमारभेत ॥६॥ लग्नायाहं ददामि त्वां तदह् तनिशे ततः। सोऽप्यहोरावकालाय सोऽर्द्धमासाय दास्यते ॥ ७ ॥ सम्पूर्णाय मासाय समर्तुभ्यः प्रदास्यति । संवत्सराय ते दद्युरसावन्दशताय च ॥ ८॥ तत्तुभ्यमभयं दद्यादित्येवमभयं वदन् । प्राङ्मुखो मूर्ध्नि हेमाम्भः शीकरैरभिपिञ्चतु ॥ ९ ॥ खट्वारोहश्च कर्त्तव्यो द्वादशे दशमेऽथवा । षोडशेवापि दिवसे द्वात्रिंशे वापि जन्मतः ॥ १० ॥ बालैः सेव्या वचासाज्या सदुग्धावाथ तैलयुक् । यष्टिकां सङ्ख्यपुष्पिं वा बालः क्षीरान्वितां पिबेत् ॥११॥ वाग्रूपसम्पद्रक्षायुर्वलं श्रीश्च प्रवर्द्धते । वचाज्याग्निशिवावाशा शुण्टी कृष्णा निशागदम् ॥
Aho ! Shrutgyanam