________________
( १७७ ) रविमन्दकुजाक्रान्तं मृगात सप्तमं सजेत् । विवाहयात्रामासादकार्ये पुंसवनेऽपि च ॥ २२॥ कुष्टी लग्नगते रवौ क्षितिमुते स्याद पित्तरोगान्वितो वाता? दिनकृत्सुतेन शशिना क्षीणेन याति क्षयम् । ज्ञानी चन्द्रसुतेन शुद्धवपुषा शुक्रेण भाग्यान्वितो दोर्घायुस्तरुणेन्दुना च गुरुणा यज्वार्थशास्त्रप्रदः ॥ २३ ॥ षड्जगन्धारगेयाश्च वीणावेणुस्वना शुभाः । शङ्खतूर्यनिनादाश्च हिताःपुंसबने सदा ॥ २४ ॥ स्थापयेत् सलिलैर्गाङ्ग सामुद्रैरपि तीर्थजैः। पुण्याहवादनिर्घोषैः समन्त्रैरभिषेचयेत् ॥ २५ ॥ शीग्रन्यग्रोधमूलानि रक्तस्वेतेन तन्तुना । कटीसूत्रवदावर्या दध्यादापुत्रजन्मनः ॥ २६ ॥ बध्वा गले पुष्करवीजमालामीषानमन्त्राहरणेन सार्द्धम् । तस्मिन् दिने सा गुरुगर्भवसा रक्षा विधेया पुरुषैःसहास्त्रैः २७
जह्याद्विरुद्धमशनं दृढभर्तृसङ्गं सन्ध्यादिनानि सुरसमवनप्रयाणम् । शय्यामृतप्रसवया गमया च सार्द्ध
नारी ततः प्रभृतिसिन्धुसमागमञ्च ॥ २८ ॥ अपुत्रिणी वा या नारी पायो वा मृतपुत्रिणी। विधिरेखा हितं न स्याद् विशेषाद् गर्भरक्षणे ॥२९॥
इति पुंसवनविधिः।
मासे षष्टेऽष्टमे वा वलिनि तदधिपे शीतगौ चेष्ठदृष्टे पुन्नामर्ने प्रयाते नरभवननवांशोदये गर्भिणीणाम् ।
१ शस्त्रप्रदः। २ डाह ।
२३
Aho ! Shrutgyanam