SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ( १७६ ) स्वांशकं वा स्वराशिं वा सिताफ यापाश्रितौ । त्रिकोणस्थौ बली जीवो योगोऽयं परमो मतः ॥ १३ ॥ पुत्रार्थिनी पिवेत् क्षीरं श्रीमूलं शवटाङ्कुरम् । तद्रसन्नासिंदद्याच्च नरस्त्रीपुटयोः क्रमात् ॥१४॥ वसुधां न स्पृशेत्पदभ्यां न स्थीयात्तद्दिने सदा । अस्त्रीयादोषधे जीर्णे सक्षीरं घृतपेशलम् ॥ १५ ॥ स्त्रीणामृतुर्भवति षोडशवासराणि तत्रादितस्तु परिहृय निशाश्चतस्रः। युग्मासु रात्रिषु नरं विषमासु पुत्री 'मिच्छन्निसेवनविधि विदधीत धीमान् ॥ १६ ॥ गर्भदोषहरंक्षीरे कतकास्तिपिवेधूः।। गर्भो न तिष्ठेद्यस्याःसा दना वन्ध्यारजो लिहेत् ॥ १७॥ रक्तेऽधिके स्त्री पुरुषस्तु शुके नपुंसकं श्रोणितशुल्कसाम्ये । यस्मादतः शुक्रविबृद्धिहेतोः कन्दर्पिकद्रव्वरसं निसेव्य ॥१८ स्रग्गन्धधूपाम्बरभूषिताङ्गो नाध्मानरुपः क्षुधितो न चापि। नारीमृतुस्नानविभूषिताङ्गी पतिश्च सदामपुटारमेतः ॥१९॥ इति गर्भदानम् । --000मासे तृतीये शशिवृद्धिपक्षे तिथौ प्रशस्ते प्रकृतौ विशेषात् । चन्द्रेऽनुकूले कुजजीवभानुवारेषु सत्पुंसवनं विधेयम् ॥२०॥ सौम्ये भयाषाढकभाद्रपादपुष्येऽथमूलादिति विष्णुहस्ताः। बुधैस्तुलादृश्चिकचापमीनसिंहोदयाःपुंसवने प्रशस्ताः ॥२१॥ अष्टमस्था ग्रहाः सर्वे नेष्टा पुंसवने बुधैः । १ मिच्छनिशेफनविधि । २ शुके । ३ शुक्ले । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy