________________
( १७५ ) मृगशाम्पतिमासमूतुस्रवं
किल भवेद् दिवि शास्त्रविदो विदुः ॥ २ ॥ चित्रादिसन्सबिश्वेभ्यो नक्षत्रेषु त्रिषु त्रिषु । स्वमृत्युर्धननाशश्च दुःखं पतिवधः क्रमात् ॥ ३॥ अनुक्तास्तारकाःसा योषितां प्रथमातवे । स्वभर्तृवन्धुमित्राणां मन्दा नन्दनहेतवः ॥ ४ ॥ ऋतुस्रावो यदि स्वापे भोगिनी कुलटागतौ । आसने मुखिनी नारी भर्तुमरणदा स्थितौ ॥५॥ ऋतुरक्ते जपावणे पुत्रिणी धनिनी घने । असिते दुःखभामारी धूने भाग्यविवर्जिता ॥ ६॥ निम्बपत्रैर्भुजङ्गत्वक्श्लेष्मातकदलान्वितः । वराङ्गं धूपयेन्नारी रजःपतनकाक्षिणी ॥ ७ ॥
उपचयभवनेन्दौ जीवसौम्यप्रदृष्टे स्वपति महिमहासा राजमित्रं कुजेन । रमयति कितवं सा भार्गवेन प्रद्धि
'भृतकमिनमुतेन स्यात् समस्तैश्च वेश्या ॥८॥ हरिहस्तानुराधा च स्वातिः पौष्णा च वारुणा। त्रीण्युत्तराणि मूलञ्च रोहिणी चोत्तमा स्मृता ॥ ९ ॥ चित्रादितीन्दवस्तिष्यास्तुरगश्चेति मध्यमाः। जन्मत्रयसमायुक्ताः शेषाःशेषे विनिन्दिताः ॥ १० ॥ अष्टमी पर्वरिक्ताभिर्जितास्तिथयः शुभाः । चर श्रेष्ठःस्थिरःस्वामी युक्तः दृष्टःशुभप्रदः ॥ ११ ॥ शेषे प्रशस्ताः सौम्यानां वारबर्गो दयोदयः । दशमात्मजयोः शुक्रश्चन्द्रो लग्ने बुधो धने ॥ १२॥
१ भ्रतकमिन।
Aho! Shrutgyanam