SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ( १७४ ) षड्विंशतिरिमे दोषाः दोषेषु बलवत्तराः । अवश्यं परिहर्तव्याः सर्व्वमङ्गलकर्म्मणि ॥ ८९ ॥ इति पडूविंशति दोषनाम । ये दोपास्तिथिनक्षत्रवारराशिग्रहोद्भवाः । ते जीवदृष्टाःक्षीयन्ते मुनिनामारसैन्यवत् ॥ ९० ॥ करणञ्च ततस्तारा तिथिहोरा ग्रहोदयः । ग्रहाचेति बलीपक्या पाददृद्धया वलप्रदाः ॥ ९१ ॥ स्ववर्गस्थाःबलाढ्याश्च शुभाः केन्द्रत्रिकोणगाः । सम्पूर्णदर्शनाः सौम्याः दृष्टिदोषविनाशकाः ॥ ९२ ॥ दुला बहवो दोषा बलिभिः कतिचिद् गुणैः । हन्यन्ते योजयेत्तस्मादल्पदोषगुणाधिकम् ॥ ९३ ॥ एषु सर्व्वेषु दोषेषु शुभकर्म्म नचाचरेत् । पराभिन्नारकर्म्मदौ दोषाः सर्व्वेऽपि सिद्धिदाः ॥ ९८ ॥ इति दोषप्रवादः । -00 इति दोषशुद्धिविधानं नाम द्वाविंशोऽध्यायः । त्रयोविंशोऽध्यायः । अतः परं गर्भदशाविधानं प्रणीयते तत्र च सङ्गृहीतम् । आसेवनं पुंसवनं तथैव सीमन्तकर्म्मापि यथाक्रमेण ॥१॥ उपचये नरराशिसमाश्रिते हरिणलक्ष्मणि भौमनिरीक्षिते । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy