________________
( १७० ) नक्षत्रतारकातुल्यतिथिर्यत्र समागता । तद्दिनं हतकार्याख्यं न तत्र शुभमाचरेत् ॥ ५८ ॥ रविन्दुस्फुटयोगर्क चतुर्दा तत्र निक्षिपेत् । मियं दानं जयं दीपं नवभिस्तानि भाजयेत् ।। यद्येकमाप शून्यं स्यादर्जनीयं हि तदिनम् ॥ ५९॥
इति चतुर्दोषः।
--000-- रविन्दुस्फुटयोगहू सप्तधा विनिवेशयेत् । मानं चापं धनं रूपं दान देयं नयानिति ।। ६० ॥ संयोज्य सारसम्भक्ते शून्यं यदि विवर्जयेत् । एकमप्यत्र शून्यं चेन तत्र शुभमाचरेत् ॥ ६१ ॥
इति सप्तदोषः।
ताराग्रहस्य वैकस्य विभक्त भवनद्वये । तिष्टतश्चन्द्रसूय्यौ चेदव्यतिवातःसराशिजः ॥ ६२ ।। स्फुटे कमलिनीबन्धौ नीङ्गजन्मधनं क्षिपेत् । धूमस्फुटःसविक्षेयः समचकाद्विशोधितः ॥ ६३ ॥ व्यतिपातो भवेत् सोऽपि नागलोकसमायुतः । परिवेश्यो भवेदेषः पुनश्चक्राद्विशोधितः ॥ ६४ ॥ भवेदिन्द्रधनुस्तत्र निक्षिपेन्नगतोटकम् । सकेतुर्नागपुत्राङ्के क्षिपेनिर्घातको मतः ॥ ६५ ॥ संचनागकुलैर्युक्तं परिधः परिकीर्तितः। नागलोकयुतः सोऽपि वाज्ञादण्डोऽभ्युदोरितः ॥६६॥
इत्यष्टमदोषः।
-000---
१ नयानिति । २ पव। ३ जीबानदण्डो।
Aho! Shrutgyanam