SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ( १६६ ) विशुद्धमण्डलादेते चन्द्रस्फुटसमा यदि । रश्मिदोषांश्च यांस्तेषु शुभकर्मणि नाचरेत् ॥ ४९ ।। इति रश्मिदोषः। वामेऽक्षिण मृगशीर्षञ्च दक्षिणेऽक्षणि हृद्रभम् । पृच्छे च मूलं मत्स्यस्य लिखेदन्यानि पार्श्वयोः ॥ ५० ॥ अन्योन्याभिमुखःस्थौ यदि भानुनिशाकरौ। तन्नक्षत्रयुगं वेधो न तत्र शुभमाचरेत् ॥ ५१ ॥ त्रिंशत्रिंशतकला भानोः सङ्क्रान्तावभितस्यजेत् । पञ्च पञ्च दिनान्येव जीवेन्मूढे समन्ततः ॥ ५२ ॥ चिरं मुह्यति चेच्छुक्रः सप्तभान्यभितस्यजेत् । गुरोः सप्तमराशिस्थस्याजः शुक्रस्तु मूढवत् ॥ ५३ ॥ त्रिशिखं पूर्वतः शूलं त्रयं पश्चावत्रिदण्डकम् । लिखेन्द्रोकाष्टकान्तीय॑क् तत्र भानुस्थकारकम् ॥ ५४॥ मध्यमस्य त्रिशूलस्य मध्येऽन्यस्याथ सव्यतः। गणयेत्रच शूलस्थास्तारा नेष्टा पराशुभाः ॥ ५५ ॥ इति सूर्यशूलम् । -----000अर्द्धचन्द्राकृतिं कृत्वा तत्र कोष्टश्च मध्यमे । त्रिशूलं त्रिशिखं तेषां मध्यापार्श्वद्रये ततः ॥ ५६ ॥ त्रीस्त्रीन् विन्दुन् बिलिख्यात्र मध्यशूलस्य मध्यमे । न्यस्यार्कस्थितमं सव्याद् गणं शूलगतं यजेत् ॥ ५७॥ इति चन्द्रशूलम् । १ नव। २२ Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy