________________
स्वदेशोदयरेखायामुदयसंशुमालिनि । मध्यच्छाया च न भवेद् दृष्टिच्छाया चे सम्भवत् ॥ ३५ ॥ विषुवव्यङ्गुलं ज्ञानसूत्राभ्यस्तम्भवेत्तिधा । काञ्चनैर्विशदैश्चाथ कन्दर्पश्च विभाजयेत् ॥ ३६ ॥ लब्धं चरार्धवाक्यानि मेषादीनां क्रमोत्क्रमात् । लङ्कार्योदयवाक्येषु तेषामृणधनक्रिया ॥ ३७॥ अमायशाषणं मांससूनुजिच्छापणार्थदम् । लढाऊदयवाक्यानि मेषादीनां क्रमोत्क्रमात् ॥ ३८ ॥ क्रमोत्क्रमेण संस्थाप्य वाक्यान्येतानि कोविदः। ततश्चरार्द्धवाक्यानि शोधयेत् प्रथमत्रये ॥ ३९ ॥ पश्चिमत्रितये तानि व्युत्क्रमेण च योजयेत् । नाम्ना संस्कृत वाक्यानि तानि विद्याद्विचक्षणः ॥४०॥ मेषादिषट्के क्रमशो व्युत्क्रमेण तुलादिषु । असुरैस्तानि विभजे लब्धा लग्नविनाडिका ॥ ४१ ॥ ततो धनेन लब्धास्तु मेषाद्यशकभुक्तयः । मध्याह्नार्कस्फुटं ज्ञात्वा गोलं कुर्यात्पदक्रियाम् ॥ ४२ ॥ सपादताराद्वन्द्रस्य वाक्यमेकं समुद्धरेत् । चरार्धवाक्येनैतेषां सङ्ख्यया मूर्ध्नि पूरयेत् ॥ ४३ ॥ शेषन्तु विकलीकृस परवाक्येन वर्द्धयेत् । विभज्य ज्ञानपादेन लब्धं चोपरि निक्षिपेत् ॥ ४४ ॥ नानानागवरेतञ्च याम्यदक्षिणगोलयोः । योजयेच्छोधयेच्चाथ यथाविधि विचक्षणः ॥ ४५ ॥ ततो ज्ञानमतापाप्तं दिनार्धघटिकादिकम् । तञ्चनागात् समुद्धृस निशाधू स्थितमिष्यते ॥ ४६॥ १ शंकवे ॥२ आण ॥ ३ र्घषने ॥ ४ मध्यान्भास्कुटम् ।
Aho! Shrutgyanam