________________
मध्यार्कस्योजपादन्तु विलिप्तीकस कोविदः । दिनार्धविकलाप्राप्तं घटिकादि विनिर्दिशेत् ॥ ४६ ॥ नवेनाभ्यस्य तत्सर्व नीचाप्तमुपरि क्षिपेत् । लीनोनो स्थमाहृस लब्धव्यङ्गुलमिष्यते ॥ ४७ ॥ विसुवव्यङ्गलेनाथ दक्षिणोत्तरगोलयोः । योज्यं शोध्यन्न चेच्छोध्यं व्यक्तये न विशोधयेत् ॥४८॥ मध्यं च्छायामिमां विद्यादुदयार्कस्फुटं पुनः । विलिप्तीकृस तत्रापि ज्ञानपाद हृतं वृथा ॥ ४९ ॥ शेषन्तु तत्र सन्ताडय निजोदयविलिप्तिभिः । ज्ञानपादैः समाहृस लब्धभुक्तिविनाडिका ॥१०॥ विशोध्य स्वोदये शेषमभुक्तं विकलां वदेत् । क्षिप्तलग्नान्तरं तस्य मिष्टकालञ्च साधयेत् ॥ ५१ ॥ अर्कभुक्तिहतायातलग्नसंख्या भवेत् ततः । वीराङ्गण विभज्याप्ता विलिप्ताश्च विशोधयेत् ॥५२॥ पूर्वापराह्नयोर्यातगन्तव्यविकलांगणे । दिनार्धविकलांशुद्धयशेषं सप्तपदस्य चेत् ॥ ५३ ॥ भाग्येन वद्धयेद् गोपैः षडर्द्धचरणस्य चेत् । पंट्पदस्यान्तराज्येन वर्धयित्वा स्थितं पुनः ॥ ५४॥ क्रमेण यातयातव्यविकलाभिर्विभाजयेत् । अगुलादि ततो लब्धं मध्यच्छायामिह क्षिपेत् ॥ ५५॥ अकृतं तदेकश्च तस्य तस्य पदम्भवेत् । पदं रत्नहतं तत् तद् गुणाकारेण संयुतम् ॥ ५६ ॥ पूर्वापराह्नयोर्मध्यच्छायाविरहितं ततः । नीचेन वर्धयेदेष भागहारो भाविष्यति ॥ ५७ ॥ १श्च । २ स्था। ३ ज्ञाण । ४ लब्धं । ५ क्षिप्ता लग्नान्तरन्तस्य । ६ षट्पदस्यन्तु।
Aho ! Shrutgyanam