________________
चत्वारिंशत्कलायुक्तं भागद्वितयमङ्गुलम् । विद्यादानेन मानेन मध्यमष्टादशाङ्गुलम् ॥ २३ ॥ पार्श्वयोर्मध्यसूत्रस्य सन्धिमार्गस्त्रयन्त्रयम् । प्रसेकं व्यङ्गुलस्थे च खण्डमेकं नवागुलम् ॥ २४ ॥ मेषादित्रितये संज्ञा मध्यसूत्रादुदीऋषु । मीनादित्रितयनामान विलोमाद्याम्यतस्त्रिषु ॥ २५॥ कोणतो विनिवृत्तिःस्यादयनं नाम भास्वतः । लनं मध्यसूत्रस्य गोलोच्चलनमुच्यते ॥ २६ ॥ विधाय पद्मिनीवन्धोः स्फुठं विघटिकामयम् । भाजयेत् ज्ञानगम्भीरैर्यदिनैकोपि लभ्यते ॥ २७॥ उत्तरायनगोमध्यसूत्रादन्तम् प्रवर्तते । योको लभ्यते भानुस्तदा याम्यायनोन्मुखः ।। २८ ॥ द्वितयं यदि लभ्येत शेषस्तत्र च नास्ति चेत् । मध्यसूत्रे स्थितः शेषे विद्यतेऽन्दे बहिर्गतम् ॥ २९ ॥ त्रितयं यदिलभ्येत तदायाम्याय नोन्मुखम् । यदि चत्वारि लभ्यन्ते मध्यसूत्रे पुनःस्थितम् ॥ ३०॥ चतुर्विकल्पे शून्ये द्वे क्रमाच्छेषं विवर्धयेत् । विधिना बन्धुना नालै-जैस्तेनैव भाजयेत् ॥ ३१ ॥ लब्धं दिनादिकं भानोस्तत्तत्सूत्रादपेयुषः । पूर्वोक्तानेव ताञ् शेषान्नानासूत्रैविभाजयेत् ॥ ३२ ॥ सम्प्राप्तमगुलं भानोस्तत्तत्सूत्रादपेयुषः । स्वदेशोदयरेखान्तु ज्ञातुकामो विचक्षणः ॥ ३३ ॥ विषुवढ्यगुलं भक्त्वा शम्भुना लब्धमङ्गुलम् । स्वदेशरेखाभूमध्ये रेखयोरन्तरम्भवेत् ॥ ३४ ॥ १ लघमम् ॥ २ पर्यादि ॥ ३ शून्यद्धये ॥ ४ मध्यरेषयोरन्तरम् ॥
-
Aho ! Shrutgyanam