________________
अङ्करार्पणमाधानं विवाहः शिशुभोजनम् । एतेषां चन्द्रमा देवः कर्त्तव्यस्तु ततो निशि ॥ ५१ ॥ पूर्वाह्ने वापराह्ने वा स्नानञ्च श्रुतिवेधनम् । केचिदाहुर्दिवारात्रावभिषेकविधि विदुः॥ ५२ ।। यात्रावस्त्रचिकित्साद्यः दिवा रात्रौ च सम्मतः । तत्र तत्रोचितस्थाने न विशेषविधिर्यदि ॥ ५३ ॥ कन्यानां वरणे चैव तथा पुसवनेऽपि च । सीमन्ते वालभुक्तौ च मूढशुक्रो न दोषकृत् ॥ १४ ॥ मासि कृयेषु कार्येषु गूढत्वे जीवशुक्रयोः । नदोषकृत्तदामासलक्षणं बलवद्यतः॥ ५५॥ मङ्गलाना हि सर्वेषाम१रार्पणमादितः । विधेयं विधिवत्तस्मात्तदत्र प्रतिपद्यते ॥ १६ ॥ अङ्कुराप्पणमिच्छन्ति मङ्गल्यारम्भतःपुरा । तृतीये पञ्चमे वापि सप्तमे नवमेऽह्नि वा ॥ ५७ ॥
श्रेयो विधातुरनुकूलदिने शुभानां वारेषु दोषरहितेषु शुभे विलग्ने । तारापतौ बलिनि पश्यति भार्गवोऽयं
बीजार्पणं मिलितबन्धुजनैविधेयम् ॥ ५८ ॥ अश्वत्थपत्रदुर्वाभिर्युक्तपादाः शरावकाः । विशुष्कगोशकृच्चूर्णसिकतापूरिताःशुभाः ॥ ५९ ॥
अध्मानशङ्खगहितामितभूरिभेरी ध्यात्वा श्रियं भगवती भवने कृताये । क्षीरप्लुतानि च वपत्तिलमासकादिबीजानि पूर्वकथितेषु शरावकेषु ॥ ६०॥
१ कृतार्थे ।
Aho ! Shrutgyanam