________________
(१६३)
पिपीलिकाद्यैरिह कीटजातैरुपद्रुता वा यदि नोपरूढा | शुष्काश्च ताम्त्राः कुटिला विरूपा वीजाङ्कुरा विघ्नभयं विदध्युः ६१ शीतलाहादिना दीर्घपत्रपुत्रसमाकुलाः ।
अङ्कुराः सिद्धिदातारो भवन्ति कुटिलेतराः ॥ ६२ ॥ अभितःस्थापयेत्प्राज्ञः साक्षिणे भाविशर्मणः । तृणाङ्कर शरावस्तु सर्व्वमङ्गलमण्डले ।। ६३ ॥ इति सामान्यविधिर्नामएकविंशोऽध्यायः ॥
द्वाविंशोऽध्यायः ॥
000
अनभिज्ञातदेशस्य वपस्य न हि पुष्कलम् । अतःप्रवक्ष्ये संक्षेपाद्दोषनिश्चयलक्षणम् ॥ १ ॥
द्विदैवताद्यैरुडुभिः क्रमेण चतुश्चतुर्भिर्मिहिरादिवाराः । एकैकशः सम्मिलिता भवन्ति वियोगविदेशस्मृता स्मृताख्याः ।। २ ।।
अर्कादिवाराश्शरवेदशैलनागेन्दुरामद्वितिथिप्रयुक्ताः ।
द्विदैवतान्याजपुरन्दरा सौरीज्यवह्निश्रयिणोविनाशः वाराः शनिप्रभृतयः प्रतिलोमसा पौष्णादिभिः सहगतास्तु चतुश्चतुर्भिः । योगः क्रमेण गदिताः स्थिरवर्द्धमान वारर्क्षयव्ययमतङ्गजमौपलानि ॥ ४ ॥ पीयूषशुलनामा च सिद्धिः काकोऽथ मृत्युकः । उत्पातो लम्बकः कम्पो नित्रञ्छत्रञ्च मुद्गरः ॥ ५ ॥
Aho! Shrutgyanam