________________
( १६० )
चरःसुखी मृतस्तुष्टो वालश्च ज्वरितो नृपः । भयार्त्तःक्षुधितः कामी निद्रालु: रसिकः शशी ॥ ३० ॥ इति चन्द्रावस्था ।
अवस्था शशिनःषष्टिर्नक्षत्रे नाड़िकावशात् । तत्र मेषादिसंज्ञाः स्युः पञ्चपञ्चकलाः क्रमात् ॥ ३१ ॥ स्थानभ्रष्टस्तपोगिण्यः परनारीरथः क्रमात् । गुरुर्नागाधिरूढञ्च क्रियाः स्युर्मेषपञ्चके ॥ ३२ ॥ सिंहासनस्थितो राजा मन्त्रिभिः सहितः शशी । रिपुहारी च सेनानीर्गुणा वृषभपञ्चके ॥ ३३ ॥ प्राणहर्ता शिरश्छेत्ता पाणिपादनिकृन्तकः । बन्धको देवरोषीच दशा मिथुनपञ्चके || ३४ ॥ राजा च देवाध्यायी च स्वापी धर्म्मस्थितः शशी । धर्मकर्त्ता च पञ्चेताः क्रियाः स्युः कर्कपञ्चके ।। ३५ ।। साध्वससम्भवश्चन्द्रो निधिजन्मातुरागतः । वाक्ययुक्तोवसारी क्रियाः स्युः सिंहपञ्चके ॥ ३६ ॥ saराप्तः पतितस्थानाद्देशान्तरगतोऽलसः । " दिशन्त्युचितवित्तञ्च गुणाः स्त्रीपञ्चके क्रमात् ॥ ३७ ॥ आस्थानस्थो भवेच्चन्द्रो मन्त्रिभिः सह मन्त्रयेत् । 'परराष्ट्रगतो 'द्वेषी गजहस्तौलिपञ्चके ॥ ३८ ॥ समन्त्री युद्धभीरुश्च भयार्तो विप्रभोजकः । कृशानुपतितश्चेति क्रियाः वृश्चिकपञ्चके ॥ ३९ ॥ क्षुधारसस्थश्चान्यत्र विचरन् नरमांसभुक् ।
कुदारसहितश्चन्द्रो गुणाः स्युःचापपञ्चके ॥ ४० ॥
१ यालार्थः । २ संज्ञायुः । ३ गुरोनाधिसाधिरूढश्च । ४ दिसन्युपिन विस्तश्च । ५ चरराष्ट्रा । ६ वोषा । ७ नारामांसभृक् ।
Aho! Shrutgyanam