________________
( १५७ )
कृत्तिकादीनि चत्वारि बुधवारादिषु क्रमात् ।
भानि यान्यमृतं योगं शुभं सिद्धिस्वसाधकम् ॥ ४ ॥ भानौ भानुश्चन्द्रमाश्चन्द्रवारे भौमे दश्रं बोधने चानुराधः । जीवो जीवे रेवती शुक्रवारे रोहिण्यर्को सिद्धियोगो निसर्गात५ मूलं हरिरुपान्त्यर्क्ष कृतिका च पुनर्व्वसुः । भाग्यः स्वातिश्च सिद्धत्वं भानुवारादिषु व्रजेत् ॥ ६ ॥ शुक्रे नन्दा बुधे भद्रा भूमिजे च जया तिथिः । शनौ रिक्ता गुरौ पूर्णा सिद्धियोगयुता भवेत् ॥ ७ ॥ सुरारवारयोर्नन्दा तिथिर्भद्रेन्दुशुक्रयोः । बुधे जया च रिक्तेज्ये शनौ पूर्णामृताह्वया ॥ ८ ॥ कदाचिदेकम्यवना हि वह्निमित्रान्यमूलाशततारकाणाम् । नन्दा च मन्दार दिनेशवारे चेद्योगमाप्ता स वराख्ययोगः ॥९॥ aौ हरिश्चन्द्रदिने दिने भं
भौमे च मूलञ्च भगं बुधेऽह्नि । उपान्यभ जीवदिने च शुक्रं स्वातिस्तथार्कों शिखिभं शुभं स्यात् ॥ १० ॥ शुक्रेज्यशुभचान्द्रीणामक्षीणेन्दोर्दिनं शुभम् | एतेषामेव पवर्गो दर्शनञ्च सदा शुभम् ॥ ११ ॥ नक्षत्रमुद्रष्टुं रोहिणी चोत्तरत्रयम् । अभिषेकपुरारम्भप्रभृतीन्यत्र कारयेत् ॥ १२ ॥ उग्राणि त्रीणि पूर्व्वाणि भरणी पत्रकारकम् । विषाग्निशत्रुघातच शाव्याद्यश्चात्र कारयेत् ।। १३ ।। अश्विनी हस्तपुष्णाणि लघु तत्र विचारयेत् । शिल्पौषधविधानानि भूषालङ्कारकादिकम् ॥ १४ ॥
१ मूले । २ द्रव ।
Aho! Shrutgyanam