________________
१ १५४ ) तुल्यःस्तेनस्तेन निर्देश्य एव ॥ २५१ ॥
इति नष्टलाभादेशः ।
तत्कालिकस्फुट लग्नं कूर्याल्लिप्सामयं बुधः। गोसिंहौ दशभिर्गुण्यावष्टीमिथुनाष्टमौ ॥ २५२॥ सप्तभिश्च तुलामेषौ मृगकन्यौ च पश्चभिः। अनुक्ता राशयःसर्वे गुणनीयाः स्वसङ्ख्यया ।। २५३ ॥ तत्र स्थितग्रहाणाञ्च गुणकारैर्विवर्द्धयेत् । जीवे दश कुजे चाष्टौ शुक्रे सप्त विनिर्दिशेत् ॥ २५४ ॥ रवौ शशिनि साम्ये च रविपुत्रे च पञ्चभिः । तदवस्तविमं राशि सप्तभिर्गुणयेत्ततः ॥ २५५ ॥ नच देयाश्चरे लग्ने विशोध्या द्विशरीरके । स्थिरेण देया नोशोध्या इति व्याचक्षते ऽपरे ॥ २५६ ॥ सम्पदायाद्वयं ब्रूमो लग्नद्रेष्काणनिर्णयम् । आदौ दद्यात्सजेदन्त्ये मध्येनायं विधिःस्मृतः ॥२५७॥ तत्तविधनशेषेण तत्तन्नक्षवमादिशेत् । केचित्रिधनशेषेषु चराद्युक्तविधि जगुः ॥ २५८ ॥ कलत्रपुत्रमित्रारिभ्रातृणां स्थानसङ्ख्यया । एकोनराशयस्तत्र देयास्तत्तारकागमे ॥ २५९ ॥ तदवस्तोदितं रा* चतुर्धा विनिवेशयेत् । दशाष्टसप्तपश्चन्नास्ते भवन्ति यथाक्रमम् । नव देया विशोध्याश्च प्रत्येकं तत्र पूर्ववत् ॥ २६० ॥ वत्सरा ऋतवो मासाः पक्षौ चेति पृथक् पृथक् । ज्ञेयाः स्वमानशेषेण प्रथमेऽत्रैव राशिके ॥ २६१ ॥ द्वितीये तिथ्यहोरात्रं तृतीये मण्डले भवम् ।
Aho! Shrutgyanam