________________
( १५२ ) स्निग्धाश्च या पादपगुल्मवल्यो निश्च्छिद्रपत्राश्च ततः सिरास्ति । पद्मेचरोशीरयुतः सगुन्द्रा काशो कुशो वा नलिका नलो वा२३३ खजूरजम्बर्जुनवेतसास्युः क्षीरान्विता वा द्रुमगुल्मवल्यः। यत्रोद्धनाभाः शुभपत्रनीलाः स्युनक्तमालाश्च ससिन्दुवाराः २३४ विभीतको वा मदयन्तिको वा यत्रास्ति तस्मिन् पुरुषत्रयेऽम्भः । स्यात् पर्वतस्योपरि पर्वतेऽन्यः तत्राम्बुमूले पुरुषत्रये वा॥२३॥ समीपजैःकाशकुशश्च युक्ता नीलाच मृछत्र सशर्करा च । तस्यां प्रभूतं सुरसञ्च तोयं कृष्णाथवा यत्र च रक्तमृद्रा॥२३६॥
कूपःखलो निकेतस्य ग्रामस्य नगरस्य वा । ऐन्द्रे भर्तृविनाशाय वह्निकोणे ऽग्निभीतिदः ॥ २३७ ॥ नैर्ऋसे बलविध्वंमी वायव्ये वह्नितापदः । द्वारवेधं परिसज्य शेषदिक्षु शुभावहः ॥ २३८ ॥ हस्तामधानुराधा पुष्यधनिष्टोत्तराणि रोहिण्यः । शतभिषजियारम्भे कूपानां शस्यते भगणः ॥ २३९ ॥ अञ्जनमुस्तौ शीरैः सराजकोशातकामलकचूर्णैः । कतकझलसमायुक्त योगः कूपोदकं शुभयेत् ॥ २४० ॥
इत्यधोजलादेशः॥
-------:0:------ होरागतो दिनकर परिपूर्णमूर्ति दृष्टःसितेन यदि वा विदशार्चितेन । नष्टस्य लब्धिमचिराद्विदधातिलाभ स्थानोपगाप्रबलवीर्ययुतःशुभो वा ॥२४१॥ स्थिरे विलग्ने यदि वा स्थिरांशे वर्गोतमे वापि विलग्नयाते ।
१ मल्या । २ रोबीर । ३ सगुजा । ४ तस्मीण। ५ सत्राम्बु ।
Aho ! Shrutgyanam