________________
( १५१ )
कोविदारस्य चैशान्या वाल्मीकः सकुशो यदि । तयोर्मध्ये जलं विद्यात् सहार्द्ध पुरुषहये ॥ २२१ ॥ वल्मीकनिचितात्सप्त पणत्याच्यामनन्तरम् । पञ्चभिः पुरुषैस्तोयं पाषाणं कुरुविन्दकः || २२२ ।। सर्व्वषामेव वृक्षाणामुदुरोधस्थितो यदि । अधस्तात् सलिलं तस्य सार्धे नरचतुष्टये ॥ २२३ ॥ दक्षिणेन करञ्जस्य काकुस्तस्मात्करत्रये । याम्ये नरत्रये यवारि कच्छपः पुरुषार्धतः ॥ २५४ ॥ उत्तरेण मधूकस्य वल्मीकं पश्चिमोत्तरे | हस्तानं पञ्चक हित्वा जलमध्याष्ट्रपुरुषैः ॥ २२५ ॥ दक्षिणेन सदुर्व्वस्तु वल्मीकस्तिलकस्य चेत् । ततः प्रतिच्या पुरुषः पचाभिः पूर्व्वतः सिरा ॥ २२६ ॥ पश्चिमेन कदम्बस्य वल्मीको दक्षिणे ततः । हस्तत्रयं परित्यज्य पडूभिस्तु पुरुपैर्जलम् ॥ २२७ ॥ तालो वा नारिकेलो वा वल्मीकोपचितस्ततः । पश्चात् पभिः करैव्र्याम चतुर्भिः पुरुषः सिरा ॥ २२८ ॥ दक्षिणेन कपीतस्य वल्मीकश्चेदुदग्दिशि । परित्यज्य करान् सप्त सलिलं पुरुषत्रये ॥ २२९ ॥ निवृच्छ्रकरपादी च लक्ष्मणा नवमालिका । दन्ती च दृश्यते यत्र नृत्रये याम्यतो जलम् ॥२३०॥ अंतृणा सतृणा भूमिः सतृणा निस्तृणाथवा । पादाहता वा निनदेद्धनं वा वारि तत्र तु ॥ २३१ ॥ खर्जूरिविसिरष्का चेद् यत्र स्याज्जलवर्ज्जिते । तस्य पश्चिमभागेन सलिलम्पुरुषत्रये || २३२ ॥
१ वल्मीक स्थलकस्य । २ ताम्याम् । ३ अत्रणेस ।
Aho! Shrutgyanam