________________
( १४७ ) इन्दौ न स्पृश्य यत्रः गर्भश्चन्द्रवशात्ततः। मण्डूकसङ्के दिवसे तत्रैव प्रसवो भवेत् ॥ १७७ ।। सितपक्षभव कृष्णे कृष्णपक्षभवासिते । दिवाभवःक्षपायाश्च क्षपाजातो दिवा भवेत् ॥१७८॥ सन्ध्याजातञ्च सन्ध्यायां पौरस्यः पश्चिमे भवेत् । एवं दिशश्च सुव्यस्तान्मरुतश्च प्रकीर्तितम् ॥ १७९ ॥ मार्गशीर्षादिमो गर्भो ज्ञेयो मन्दफलःसदा । तथा पौषसितोद्भूतो गर्भः सूते फलं मनाक् ॥ १८० ॥ पौषस्य कृष्णमारभ्य क्रमाद्गर्भ:प्रतिष्टितः। श्रवणस्य सितं प्राप्य श्रवेदाकार्त्तिकोदयः ॥१८१॥ पूर्वाषाढं गते भानौ जातो गर्भस्ततो रवेः । आद्रये प्रयाणात्मसेकं त्रयोदशदिनश्रुतिः ॥ १८२॥
शुक्रोदयात्प्रभृतिक्रमेण दृष्टिर्भवेद्वादशभेषु मध्यम् । दिकेतनः कष्टतमा ततोपि प्रापास्यते सा नवतारकेषु ।।१८३॥ स्नग्धावलक्षबहुलं परिवेशचक्रं सूचिक्षुरोपरचितं पटलं घनानाम् । शुद्धं प्रसनशशितारकमम्बरञ्च काकाण्डमेचकमुषनिशि वायुगर्भे८४ उन्ध्याशुभामत्स्यसुरेन्द्रचाप नि?र्षविद्युत्पतिसूर्ययुक्ता । गदा प्रशस्ता शिवशक्रसोम दिग्भागगानां मृगपक्षिणाञ्च ॥८॥ पैत्रे भाद्रपदश्चान्द्रे वैश्वे साईं च वारुणे। आप्ये स्वातौ च रुद्रे च गर्भो बहुजलप्रदः ॥१८६॥ निहतस्त्रिभिरुत्पातैर्गर्भःक्षरति नूतनः । युक्तयोदृष्टयोःसौम्यैः शुभो गर्भोऽर्कचन्द्रयोः ॥ १८७ ।।
१ तस्फुर्ष । २ श्रयत् । ३ वमेत् । ४ फलन्मदाक । ५ तत्रयो. शदिनश्रुतिः । ६ कदाम्बरश्च । ७ मुसन्ति सिवागर्भे । ८दिग्भाबिलग्न मृगपक्षिगा।
Aho ! Shrutgyanam