SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ( १४६ ) यदा पृच्छेत् पृष्टा जललुलितपा निःस्पृशति वा यदा सान्द्रं सद्यः किरति तदाम्भो जलधरः ॥ १६६॥ तोयासन्नस्तोषकार्योन्मुखो वा पृष्टा चेत्स्याच्छंस मनोऽम्बुसंज्ञाम् । तोयार्थानां प्रश्नकाले श्रुतिर्वा यस्मिन् वाच्यं तत्र निर्देश्यमम्भः ॥ १६७ ॥ आनोःशुद्धस्फुटे चन्द्रभागालोकमुपक्षिपेत् । मण्डलानं समुद्धस शिष्टं वायुस्फुटं वदेत् ॥ १६८ ॥ यदेन्दुस्फुटतुल्यासौ तत्र जीवज्ञराहवः । यदि च स्युस्तदालोके वातचक्रं विजृम्भते ॥ १६९ ॥ गत चैत्रादिकान्मासान् दिनीकुस तिथि क्षिपेत् । तो नीतिभृतस्ताराः स्थितं भवति लिप्तिका ॥ १७० ॥ तत्र ग्रहाणां सर्व्वेषां क्षिपेच्छुद्धस्फुटानपि । अयं पिण्डस्फुटो नाम भानुस्थानादिमो भवेत् ॥ १७१ ॥ विशोध्य मण्डलात्तञ्च स्थितं विद्युत्स्फुटो भवेत् । क्षिप्त्वा ग्रामचटकं तञ्च चक्रेण ताडयेत् ॥ १७२ ॥ ततश्चन्द्रस्फुटःशोध्यः शेषो मेषस्फुटो भवेत् । अस्मिन् पिण्डस्फुटाने दृष्टिर्नास्तीति निर्दिशेत् ॥ १७३ ॥ दृष्टिरस्यधिके तञ्च कुर्य्याद्विघटिकामयम् । ओजः स चेद्दिवा वृष्टिः समश्चेन्निशि सम्भवेत् ॥ १७४ ॥ अथवा विकला पिण्डं पिण्डभोगेन भाजयेत् । लिप्तिका दिनतो लब्धं दृष्टिकालस्य निर्दिशेत् ॥ १७५ ॥ मासस्य मार्गशीर्षस्य प्रारभ्य प्रथमां सिते । पूर्वाषाढस्सितामेतं मेघगर्भः परीक्ष्यताम् ॥ १७६ ॥ १ स्थारा । २ गामवटकम् । ३ पूर्वाषाढांशशिना ते । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy