________________
( १३५ )
तिर्य्यग्रा शिर्यदा लग्नाद् द्वितीयः स्याच्छुभान्वितः । तृतीये यदि वा ब्रूयातिरश्चां गमनं तदा ॥ ६१ ॥ इति समागमादेशः ।
लग्नात् सुतार्थ सहजेषुगतैर्गतानां दुरम्प्रवृत्तिमथवागममादिशन्ति । सौम्यैः पुनश्च समाप्तिमरिस्थितैर्वा लघुागमं भृगुसुतामरपूजिताभ्याम् ॥ ६२ ॥ घनसहजगतौ सितामरेढ्यौ कथययागमनं प्रवासि पुंसाम् । सुखभवनगतौ विमोचनत्वं झटितिं नृणां कुरुते गृहप्रवेशम् ६३ जामित्रवर्त्तिन्यथवारिसंस्थे नभश्चरे केन्द्रगते च जीवे । प्रवासिनामागतिरत्र वाच्या त्रिकोणभाजीन्दुसुते सिते वा ॥ ६४ ॥ अष्टमे हरिणलक्ष्मणि लग्नात् कण्टकैरपि च पापविमुक्तैः । प्रोषितः सुखमुपेत्यथ सौम्ये स्वान्गृहान्भजति लाभसमेतः ||६|| दुश्चिक्यस्थैः केन्द्रषष्टोपगैर्वा पापैः पापालोकिते पृष्टलग्ने | सौम्यैर्दृष्टे बन्धनस्थान्मृतान् वा नष्टान्भ्रष्टाघातितान् वा वदेत्तान् लग्नान्मन्दः पापयुग्धर्म्मसंस्थः सौम्यैर्मुक्तः स्याद्यदा नेक्षितश्च । देशेऽन्यस्मिन् रोगयुक्तस्तदानीम् ब्रूयान्मृत्युस्थानगे मृत्युमस्य विलग्नतो यावतिकेत नेग्रहः समागता द्वादश तेन राशयः । दिनानि तावन्ति वदेदिहागतो निवर्तते वक्रमुपागतैर्ग्रहैः ॥ ६६ ॥ इति प्रोषितसमागमादेशः ।
·000
शनीन्दुभौमा यदि लाभवर्त्तिनस्ततोभृगुः सूर्य्यबुधौ त्रिबन्धुगौ । गुरुःसुते स्याद्यदिविद्विषस्तदा विजित्य सिद्धार्थमुपैति मन्दिरम् ६७
१ गतानाम् । २ सुखभवनगतारिभोटनत्वम् ।
Aho! Shrutgyanam