________________
( १३४ ) मेषवाजिषकेशरिणश्रेल्लग्नगा:मुखगता यदि वा स्युः । खेचरैविरहितासहिता वा विद्विषो हि दधते विनिवर्तिम् ॥५॥ स्थिरराशिगतो विलग्नगः शनिरिज्योऽथ तदा रिपुगःस्थिरः । उदयक्षगतामरातचश्चक्षरराशौ द्विषतस्तदागमः ॥ ५२ ॥ गुरुद्वितीये यदि वा तृतीये धाम्नि स्थितश्चभृगुनन्दनो वा । क्षिप्रं तदायाति बलं रिपूणां तथा प्रवासी गृहमेति चाशु ॥५३॥
लग्नाद्राशौ चन्द्रमा यावति स्यात् तावद्भिर्वा वासरैरागमो वै । लग्नस्येन्दोरन्तरे खेचरश्चे जायेतान्यो नैव तद्वाच्यमेवम् ॥ ५४ ॥
इति सपत्नागमादेशः।
अर्कार्कजज्ञासुरपूजितानां चरोदयस्थो यदि कश्चिदेकः । गमन्तदाक्षिप्रमुदाहरन्ति वक्रोपयातैर्विपरोतमेभिः ॥५५॥ चरविलग्नतःशशिजोऽथवा सुरगुरुस्तपनोऽथसितोऽथवा । गमनकृत्कथितो विनित्तिदः पुनरसौ स्थिरलग्नगतःपथि॥५६ गमनागमने च पृच्छतः स्थिरलग्ने गुरुसौरिवीक्षिते । चरखेचरवीक्षिते पुनश्चचरलग्नेद्रयमाशु निर्दिशेत् ॥ ५७ ॥ स्थिर समग्रोत्तमवीर्ययुक्तो विलग्नगो वेश्मनि यत्र खेटः । तत्तुल्यसङ्ख्यापमितैनिवृत्ति रुक्ताप्रयातुन्नियमेन मासै:५८॥ काल एव विनिर्देश्यश्चरांशकगते ग्रहे । स्थिरेयात्मकभागस्थे क्रमाद्वित्रिगुणाः स्मृताः ॥ ५० ॥ यदा यियासतो लग्ने समरस्थानपतिग्रहैः। बक्रं विधत्ते तकालमावर्तेरपरे जगुः ॥ ६० ॥
Aho ! Shrutgyanam